Sunday, July 12, 2020

उपचारः (Upacharah)

लेखकः - नरसिंहभट्टः
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



'उपाचार' इति पदं सामान्यतया व्यवह्रियते । पञ्चोपचारः दशोपचारः षोडशोपचारः इत्यादिषु उपचारः दृश्यते । 'उप' इत्युपसर्गपूर्वकात् 'चर'धातोः 'घञ्' प्रत्यययोगेन 'उपचार'पदस्य निष्पत्तिः । तस्य रोगप्रतिकारः उपचर्या चिकित्सा निग्रहः सेवा इत्याद्यर्थाः उक्ताः । उप- समीपे, चरणं - गतिः इत्युपचारः । यदा यस्य कस्यापि विषयस्य तादात्म्यं सम्पादनीयं चेत् तदा तस्य समीपे अस्माभिः चरितव्यम् । तदा तस्य उपचार इति कथ्यते । वस्तुतः अस्माकं जीवनं भगवतः तादात्म्येन सफलं भूयात् इति हेतोः उपचारः सम्पद्यते । तर्हि उपचारः कथमिति पश्याम ।

अस्माभिः भगवतः, पित्रोः, अतिथ्यभ्यागतानां, बान्धवानां, ज्येष्ठानां, श्रेष्ठानां चोपचारः क्रियते । यदा सम्यगुपचारः न भवति तदा अपचारोऽपि भवेत् । उपाचारव्याजेन कदाचिद् अपचारोऽपि सङ्घटते । भगवतः विषये ध्यानावाहनादिभिः पूजां कुर्मः । अथवा धूपदीपादिना पञ्चोपचारान् वा कुर्मः । तदभावे मानसोपचारोऽपि स्यात् । अतिथीनां विषये अर्घ्यपाद्यादिना भोजनेन च गौरवं समर्पयामः । इदं तु उपचारस्य प्रकारवैविध्यम् । श्रीरङ्गमहागुरवः एकेनोदाहरणेन अमुं विषयं बहुसुन्दरं व्याख्यातवन्तः -" 'जिरिनिम्बः' इति काचन वनस्पतिरस्ति । तदभिवृद्ध्यर्थं कदाचित् अस्माभिः सारं(भोजने व्यञ्जनरूपेण उपयुज्यमानं द्रव्यम्) दधि इत्यादि-पदार्थाः दीयन्ते । तदा तस्य (वनस्पतेः) पर्णस्य गन्धोऽपि समीचीनो भवति । वृक्षवृद्ध्यार्थं यः रसः आवश्यकः स रसः तस्मिन्नेव वृक्षे सदा सञ्चरन् भवति । तदनुगुणं यदा अस्माभिः 'चारः' क्रियते तदा तस्य उपचारो भविष्यति । अन्यथा अपचारो भविष्यति ।" शरीररक्षणार्थं आहारसेवनं स्नानादिकर्माणि सन्ति । तैः शरीरस्य उपचयो भवति । एषः उपचारः । यदा अस्माभिः विषं भुक्तं तदा शरीरस्यापचयो भवति । एषः अपचारः । एवमेव सर्वे प्राणिनः स्वतनुं स्वस्वामिनं च तथा उपचरन्तः भवन्ति ।

अस्माभिः य उपाचारः भगवति क्रियते कथं तं प्राप्नोति । अत्रापि एवं कथयन्ति गुरवः – इदानीम् अहं शब्दोच्चारणं करोमि । अस्य ध्वनिः कियद्दूरं गच्छेत् । यदि इतोऽपि उच्चैः उच्चरामि स ध्वनिः ततोऽपि दूरं गच्छति । यदि दूरवाण्या वदामि तदा शतयोजनं गच्छेत वा । एवमेव अस्माकं मनः भगवन्तं यथा व्रजेत् तथा उपचारः करणीयः" इति । अत एवोक्तं गीताचार्येण – "यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥" इति ।

अत्र विदुरनीतिः एवं वक्ति – पञ्चाग्नयो मनुष्याणां परिचर्याः प्रयत्नतः । पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥" इति । मुख्यतः उपचारः परिचर्या सेवा एव । अस्माकं जीवने एतेषां सेवा करणीया । यस्य उपचारः क्रियते तस्य गुणाः (उपचारं कृतवति)सात्म्याः भवन्ति । माता पिता अग्निः आत्मा गुरुश्च इत्येतेषां उपचारेण सद्गुणाः एव आविर्भवन्ति । एते न कदापि पुत्राणां विषये अवगुणं चिन्तयन्ति । एतेषां उप-समीपे चरणेन वयं गुणसम्पन्नाः भवेम । अतः एव षोडशोपचार-पञ्चोपचारेत्यादिः बाह्योपचारः तथा मानसोपचारः प्रसिद्धोऽभवत् । बाह्योपचारः मानसोपचारे प्रलीयते । धर्मार्थकाममोक्षार्थं समस्तोपचारः भवतु ।