डा. के एस् कण्णन् DLitt.
SRSJM Chair Professor,
IIT-Madras, Chennai.
SRSJM Chair Professor,
IIT-Madras, Chennai.
(प्रतिक्रियां दातुं शक्यते : lekhana@ayvm.in)
"उत्सवप्रियाः खलु मनुष्याः" - इत्यभिदधता कालिदासेन मानवसामान्यान्तरङ्गमेव परामृष्टमिति सुवचम् । व्याजं कमपि विनिर्मायाप्युत्सवेषु व्याप्रियमाणा दरीदृश्यन्ते जनाः ।
साधारणजनानेव मनसिकृत्य सरलभाषयैव गहनान् विषयान् प्रतिपादयन्ति पुराणान्यपि पर्वकालसम्बद्धान्बहूनुत्सवान् निरूपयन्ति । ईदृक्षपर्वकालाऽऽचर्यमाणोत्सवा नां सङ्ख्या यथाऽपरिमिता वर्तते, तद्वदेव तत्तत्प्रसङ्गनिर्वर्त्यमाना आचारविशेषाः पाकप्रकाराश्च परिपाठेन निदर्शयितुं न शक्यन्ते । पर्वाणि च तानि भगवदवतारानेवाभिलक्षयन्ति । अनन्तास्सन्तोऽप्यवतारास्समा नलक्ष्यकास्सन्तोऽपि प्रकारान्नैकानाविष्कुर्वन्ति ।
धर्मग्लानिः
यदा यदा हि धर्मस्येति प्रसिद्धगीताभणित्यनुसारमेव धर्मग्लानिप्रतिविधानं कर्तुकामो भगवांस्तदा तदाऽवतरति । का नाम धर्मग्लानिः? ग्लानि-म्लानी समानार्थिके । नैरस्यापन्नानि कुसुमानि नाम म्लायन्ति यद्वत्तद्वदेव धर्मोऽपि ग्लायति। दम्भशालिषु तावज्जृम्भमाणैर्बाह्याचरणैस् सम्यक्त्वप्रतीतिकारिता विराजते ; परन्तु सारभागो धर्मो रिक्तीभूत एव । यथा यथाऽसुराः प्रबलास्सञ्जायन्ते, तथा तथा धर्मग्लानिरवश्यम्भाविनी । हिरण्याक्ष-हिरण्यकशिप्वोर्हेतो स्सञ्जातं धर्मपराभवमभिभावयितुं भगवदवतारापेक्षा समजनि | प्रकृते च हिरण्यकशिपोस्संहारार्थकं नरसिंहावतारं किञ्चिदिव समीक्षितुं समीहामहे ।
हिरण्यकशिपुना विहितस्य तपस औग्र्यमभिनन्दन्ब्रह्मा साश्चर्यं स्वयमुज्जगार "नैतत्पूर्वर्षयश्चक्रुः!" इति ! वृणीष्व काङ्क्षितं वरमिति च । स्वस्य सशरीरस्यामर्त्यतां सिषाधयिषुर्हिरण्यकशिपुः "नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि" इत्यप्राक्षीद्वरम् ।
लब्धवरो दैत्योऽयं हेममयं वपुर्बिभ्राणो निरस्तमृत्युभीतिस्सन्नचिराल्लो ककण्टक एव समजायत । मर्माणि विध्यन्तं तमसहमाना देवास्स्थितिकारकं विष्णुं भृशं प्रार्थयामासुः । "अचिरादसौ स्वपुत्रं प्रह्लादमेव व्यथयिष्यति मद्भक्तं, यदेव निमित्तीकृत्य भङ्क्ष्यामि तमसुरमिति वीतचिन्ता भवत" - इत्याश्वास्य विससर्ज तान् विष्णुर्भगवान् ।
"भागवतेषु स्थानं प्राथमिकं खलु भजत्येष प्रह्लादः" - इति पूज्याः श्रीरङ्गप्रियस्वामिनः युक्तमेवोचुः । यतो हि "प्रह्लादो जन्मवैष्णवः" इति किल गीयते । "मदीयः पुत्रस्सन् मामकीनं वैरिणमेव विष्णुमसावभिपूजयति" इत्यतिमात्रं क्रुध्यन् हिरण्यकशिपुर्विधाभिर्विविधाभिः क्रूराभिः प्रह्लादमर्दयामास । "क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते?" इति दुरुक्तीरभिभाषमाण एव हिरण्ये, "अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्" ! एवमाविर्भूयासुरमिमं लीलया नखैर्ददार व्यापादयामास च । घटनाया अमुष्याः स्मारणर्थकोऽयमुत्सव आचर्यते ।
अवतार-तत्त्वम्
रहस्यभूतान् द्वित्रानंशानत्रानुसन्दध्मः । प्रथमोंऽशोऽयं यत्त्रिमूर्तिसङ्गमस्थानभूतोऽसौ भगवान्नरसिंहः । यथाऽहुः प्राञ्चः -
साधारणजनानेव मनसिकृत्य सरलभाषयैव गहनान् विषयान् प्रतिपादयन्ति पुराणान्यपि पर्वकालसम्बद्धान्बहूनुत्सवान् निरूपयन्ति । ईदृक्षपर्वकालाऽऽचर्यमाणोत्सवा
धर्मग्लानिः
यदा यदा हि धर्मस्येति प्रसिद्धगीताभणित्यनुसारमेव धर्मग्लानिप्रतिविधानं कर्तुकामो भगवांस्तदा तदाऽवतरति । का नाम धर्मग्लानिः? ग्लानि-म्लानी समानार्थिके । नैरस्यापन्नानि कुसुमानि नाम म्लायन्ति यद्वत्तद्वदेव धर्मोऽपि ग्लायति। दम्भशालिषु तावज्जृम्भमाणैर्बाह्याचरणैस्
हिरण्यकशिपुना विहितस्य तपस औग्र्यमभिनन्दन्ब्रह्मा साश्चर्यं स्वयमुज्जगार "नैतत्पूर्वर्षयश्चक्रुः!" इति ! वृणीष्व काङ्क्षितं वरमिति च । स्वस्य सशरीरस्यामर्त्यतां सिषाधयिषुर्हिरण्यकशिपुः "नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि" इत्यप्राक्षीद्वरम् ।
लब्धवरो दैत्योऽयं हेममयं वपुर्बिभ्राणो निरस्तमृत्युभीतिस्सन्नचिराल्लो
"भागवतेषु स्थानं प्राथमिकं खलु भजत्येष प्रह्लादः" - इति पूज्याः श्रीरङ्गप्रियस्वामिनः युक्तमेवोचुः । यतो हि "प्रह्लादो जन्मवैष्णवः" इति किल गीयते । "मदीयः पुत्रस्सन् मामकीनं वैरिणमेव विष्णुमसावभिपूजयति" इत्यतिमात्रं क्रुध्यन् हिरण्यकशिपुर्विधाभिर्विविधाभिः क्रूराभिः प्रह्लादमर्दयामास । "क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते?" इति दुरुक्तीरभिभाषमाण एव हिरण्ये, "अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्" ! एवमाविर्भूयासुरमिमं लीलया नखैर्ददार व्यापादयामास च । घटनाया अमुष्याः स्मारणर्थकोऽयमुत्सव आचर्यते ।
अवतार-तत्त्वम्
रहस्यभूतान् द्वित्रानंशानत्रानुसन्दध्मः । प्रथमोंऽशोऽयं यत्त्रिमूर्तिसङ्गमस्थानभूतोऽसौ भगवान्नरसिंहः । यथाऽहुः प्राञ्चः -
"आनाभेर्ब्रह्मणो रूपमागलाद् वैष्णवं वपुः । आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम्॥" इति ।
द्वितीयोंऽशस्सन्ध्याकालसम्बद् धः । आन्तरिक्यास्सन्ध्यायाः प्रतीकभूतोऽयं योगशास्त्रोपलक्षितं लयविक्षेपसन्धिभूतं प्रशस्तं समयमेव संसूचयति ।
तृतीयश्चायमंशः - को नामाऽयं स्तम्भः यत्राऽत्मानमाविर्भावयाम्बभूव भगवान्नरसिंहः? योगिपुङ्गवैश्श्रीरङ्गमहागुरुभिः प्रतीचीनदर्शनैस्समीचीनतया यथा प्रत्यपादि, तथाऽस्मदीयपृष्ठवंश एवासौ, य एव मेरुस्तम्भ इत्यप्यभिधां धत्ते । सुषुम्नायां गोचरीभवन्नन्तर्ज्योतिरन्तर्ना दयोर्योग एवासौ योगमूर्तिर्नृसिंहः । सुयोगस्यास्य संप्राप्तिरेव धर्मसारो धर्मरसश्च सर्वग्लानिपरिहारकः ।
ऐकलक्ष्यम्
महता तपसा महद्बलं सम्पाद्य स्वहित-परहितसंसाधने सर्वथा समर्थस्सन्नपि हिरण्यकशिपुस्स्वहानिपरहानी एव समासादितवान् । यत्र यत्र बलं स्वं स्थानं वा दुष्ठूपयुङ्क्ते कश्चित्तत्र तत्र धर्मग्लानिःकृतपदैवेति मन्तव्यम्। औग्र्यं रोगस्य प्रतिकर्तुमनुरूपां योगमयीं मूर्तिं बिभ्रदसौ नरसिंहः प्रेरयेन्नस्सर्वान्साध्व्यां सरण्याम् - "तन्नो नारसिंहः प्रचोदयात्" ! - इति शम् ।
द्वितीयोंऽशस्सन्ध्याकालसम्बद्
तृतीयश्चायमंशः - को नामाऽयं स्तम्भः यत्राऽत्मानमाविर्भावयाम्बभूव भगवान्नरसिंहः? योगिपुङ्गवैश्श्रीरङ्गमहागुरुभिः