ऋतं सत्यमिति पदद्वयम् अस्माभिः श्रुतप्रायम् ।
"ऋतं च सत्यं चाभीद्धात्तपसॊऽध्यजायत" इत्यत्र ऋतसत्यपदे भिन्नार्थके इव भाति पार्थक्येन अभिधानात् ।ऋतमित्यस्य विरुद्धार्थकपदम् अनृतम् ।सत्यमित्यस्य विरुद्धार्थकपदम् असत्यम् ।अनृतम् असत्यं च अभिन्नार्थके। एवं कुत्रचित् अनयोः पदयोः अर्थः एक इव भाति ।
"ऋतं पिबन्तौ सुकृतस्य लोके" (कठोपनिषत्) इत्यत्र शङ्करभगवत्पादैः भाषितम्- 'ऋतं –सत्यम् अवश्यंभावित्वात्' इति ऋतपदस्य सत्यम् इति अर्थम् उक्त्वा सत्यमित्युक्ते कर्मफलमित्यर्थः विवृतः ।किं तर्हि वास्तविकतया अनयोः पदयोः अर्थः।

श्रीरङ्गमहागुरवः अनयोः पदयोः विवरणम् एकेनोदाहरणेन विवृण्वन्ति स्म ।आपाततः एते पदे अभिन्नार्थद्योतके भवतः । परन्तु एते पदे भिन्नार्थद्योतके भवतः इति ।तेनोक्तम् उदाहरणम्- न्यग्रोधबीजं न्यग्रोधवृक्षः च । अत्र ऋतं बीजस्थानीयम् सत्यं वृक्षस्थानीयम् ।बीजे वृक्षरूपेण परिणामित्वशक्तिरस्ति । अतः बीजं वृक्षरूपेण वर्धते ।वृक्षविकासरूपः आशयः सारभूतः भागः बीजे भवति ।तम् ऋतमिति ब्रूमः ।सत्यम् इति पदम् संस्कृतभाषायाः पदम् । अस्मिन् पदे 'स-ति-यं' इति भागत्रयमस्ति ।
'स' इत्यस्य अमरत्वं 'ति' इत्यस्य मरत्वं 'य' इत्यस्य च अनयोः सेतुत्वं इति अर्थः अस्ति मरामरयोः सामरस्यमेव सत्यम् । यः बीजे विद्यमानः वृक्षविकासरूपः आशयः स्थूलरूपेण परिणमते स वृक्षनाम्ना व्यवह्रियते ।यदि स वृक्षः मूलं बीजमेव उत्पादयति तदा वृक्षः सत्यमितिकथ्यते ।तेनैव बीजेन स वृक्षः विकसति चेत् तच्च बीजं ऋतमित्येव । यत् वृक्षं तिरोधत्ते तत् अनृतम् असत्यमिति कथ्यते ।एवम् एतादृशेन बीजवृक्षोदाहरणेन अस्य विषयस्य सुबोधरूपेण श्रीरङ्गगुरुणा दीयमानं विवरणम् असदृशम् ।अमुमेवार्थं एकेन मन्त्रेण कथम् अबोधयन् इति अवलोकयाम । "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ।" परमात्मा स्वस्य सङ्कल्पानुसारेण बीजं वृक्षरूपेण विस्तारयति।परमात्मा जगत्सृष्टिं कर्तुं निर्विकारं प्रभवति । अत्र ऋतं जगतः मूलरूपम् । सत्यं चाखिलं विश्वम् ।यदा ऋतं बीजं वृक्षरूपेण परिणतं भवति तदा बीजं वृक्षे विकासं प्राप्नोति । तत्र वयं बीजं न पश्यामः ।तथैव यदा वृक्षः बीजे विलयं याति तदा बीजे वृक्षं न पश्यामः । एवं च सर्वप्रलयरूपम् ऋतं विकसितरूपं सत्यम् ।यदा ऋतं सत्यमिति पदद्वयम् एकत्र प्रयुज्यते तदा भिन्नार्थः ग्राह्यः ।अन्यथा सत्यशब्दस्यापि ऋतमित्येवार्थः इति अवगन्तव्यः। यथा ऋतम् अस्य जगतः मूलं तथैव सत्यमपि
मूलमेव भवति "सत्यज्ञानमनन्तं ब्रह्म" इत्यादि श्रुत्युक्तप्रकारेण इति अलं विस्तरेण ।