'एकं सद् विप्राः बहुधा वदन्ति' इति काचन श्रुतिरस्ति। सदिति अरूपम् अव्यक्तं नित्यं शाश्वतं च एकमेव अस्ति । तत्तु 'देव' इति पदेन वयं व्यवहरामः । परन्तु त्रयस्त्रिंशत् कोटिदेवाताः सन्ति । अथापि एकः देवः इति व्यवहारः असाधुः इति केषाञ्चन वादः श्रूयते। आपाततः स वादः सत्यमिव भाति । परन्तु स देवः एक एव सन् नाना रूपेण विराजते । इदं कथं युज्यते?
एकस्मिन् गृहे गृहस्थः भवति । स भार्यायै पतिः भवति तत्र पतिरूपेण कार्यं करोति । पुत्राय पिता भवति तत्र पितृरूपेण कार्यं करोति । सहोदराणां कृते भ्राता भवति तत्र सहोदरत्वं निर्वहति। यदा स याने भवति तं यात्रिकः इति उपचरतन्ति । एवं एक एव यथा पतिः पिता भ्राता यात्रिकः इत्यादिपदव्यवहार्यः भवति तथैव एक एव देवः तत्तत् कार्यानुगुणं विविधनामानि विधत्ते । सृष्टेः पूर्वं स एकः अद्वयः परब्रह्मनामकः आसीत् । यदा तस्मिन् 'बहुधा व्याकरवाणि' इति सङ्कल्पः अजायत तदाप्रजापतिरूपम् अधत्त ।सृष्टिकार्ये निरतस्य ब्रह्मणः रूपविशेष एव प्रजापतिः इति कथ्यते । स प्रजापतिः आत्मानं प्रकृतिपुरुषरूपेण विभक्तवान् ।
तयोः पुरुषप्रकृत्योः संयोगेन प्रथमा सृष्टिरभवत् । स प्रजापतिः उत्तरत्र सृष्टिकार्यं निरन्तरं एतावत्पर्यन्तम् अविच्छिन्नरूपेण निरवहत् । यदा स सृष्टिं करोति स ब्रह्मा इति नाम्ना प्रथितः सञ्जातः । सा सृष्टिः एकैनैव रूपेण न तिष्ठति । निरन्तरम् अनुवर्तते । बीजं स्वस्वरूपेण वर्तते चेत् तदा तस्य उपयोगः कदापि न भवति । बीजं अङ्कुरशाखोपशाखापुष्पफलरूपेण पुनः बीजरुपे पर्यवसानं गच्छति । तदा नैकं बीजं फलति । अनन्तानि बीजानि भूत्वा लोकोपकाराय कल्पते । एवमेव ब्रह्मा सृष्टिं करोति । तां सृष्टिं काचित् शक्तिरेव पालयति । तां शक्तिं विष्णुः इति नाम्ना व्यवहरन्ति । एवमेव बीजं न केवलं शाखोपशाखारूपेण विवर्धते । अपि तु कदाचित् तस्य लयोऽपि भवति । तस्मिन् लयेऽपि काचन शक्तिः अभ्युपगन्तव्या । सा शक्तिः शिवः इति ख्यातः । एवं प्रवर्तिता सृष्टिः एतावत्कालपर्यन्तम् अनवरतं स्वस्वशक्तिरूपेण परिवर्तयन्ती अस्ति । अस्यां सृष्टौ न शक्तित्रयमलम् । विघ्ननिवारकत्वेन विनायकं विघ्नकर्तृत्वरूपेण विघ्नराजं-विघ्नेशं वयं भावयाम । एवमेव यथा पुरुषशक्तिरस्ति तथा स्त्रीशक्तिरपि अस्ति । तदा दुर्गा-सरस्वती-लक्ष्मीरूपेण भावयाम । एतस्मिन् क्रमे कार्यानुगुणं अस्माभिः त्रयस्त्रिंशद्देवतानां भावना क्रियते । वस्तुतः एक एव देवः एतादृशविविधकार्याणां निर्वहणं कर्तुं स्वरूपं बहुधा व्यरचयत् ।
प्रतिदिनं वयं गुरुस्तुतिं पठामः "गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः" इति । एक एव गुरुः सन् ब्रह्मविष्णुशिवरूपेण विवर्तः सन् अग्रे स्वयं परब्रह्मापि भवति । एवं एकः एव देवः वा त्रयस्त्रिशत् कोटिदेवाः इति संशयः निरस्तः ।