Monday, October 5, 2020

आत्मराजः (Athmarajaha)

लेखकः – विद्वान् नरसिंह भट्टः

(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



'भा'-प्रकाशाधारिता अस्माकं राज्यव्यवस्था । अत एवास्माकं देशः भारतम् इति विख्यातम् । राज्ये राजा प्रधानः । तमनुसरन्ति निखिला जनाः । 'राजृ-दीप्तौइत्यर्थकेन धातुना 'राजाइति पदस्य व्युत्पत्तिः। दीप्तिःप्रकाशस्वरूपः राजा भवति । प्रकाशः स्वतः प्रकाशः तथैव परप्रकाशकोऽपि । यथा शरीरे आत्मा एव प्रधानः तथैव राज्ये राजा प्रधानो भवति । सनातनार्षपरम्पारा एतादृशशरीरराज्यमवलम्ब्य राज्यव्यस्थामकारि । 

"एतद्राज्यं नान्यदस्तीह राज्यं आत्मैव राजा विदितो यथावत्" इतिरीत्या यथा अस्य शरीरस्य राजा आत्मा भवति तथैव अस्य देशस्य राजापि आत्मप्रतिनिधिभूत एव भवति  आत्मनः आज्ञामनुल्लङ्घ्य सर्वाणि अङ्गानि स्वेस्वे कर्मण्यभिरमन्ते  यदा प्रधानस्यात्मनः विरुद्धकर्माणि कुर्वन्ति तदा तेषामस्तित्वे हानिः सम्पद्येत  अतः आत्मनः मनसामनसः इन्द्रियेणइन्द्रियस्य अर्थेन सामरस्यं यदा भवति तदैव शरीरस्य स्वास्थ्यं भवति  अन्यथा अस्वस्थता इति व्यवहारः  एवमेव राज्येऽपि राज्ञः शासनमनुसरन्तः सर्वे अधिकारिणः स्वनियोजितकार्यतत्पराः चेत् तदा राज्यस्य सुभिक्षता सम्भवति  तर्हि तत्कथं साधनीयमिति किञ्चिज्जानीमः 

राजा सर्वविद्यासम्पन्नः सुशिक्षितो भवेत् । राजा लोकव्यवहारे समर्थः सन् अलौकिकव्यवहारे च स्वप्रजाभ्यः आदर्शः भवेत् । यदा राजा धर्मे मतिमान् भवति स सर्वेषां प्रियो भवति । स न्यायान्यायौ कर्तव्याकर्तव्ये युक्तायुक्तौ च जानाति । तादृशेन राज्ञा उत्तमराज्यपालनं निरीक्षितुं शक्नुमः । स राजा ऋषितुल्यः भूत्वा राजर्षिपदवीम् अवाप्नोति । 'राजा विष्णुवत्पूज्यः' "न अविष्णुः पृथिवीपतिः' इत्यादिप्रसिद्धोक्तयः एतादृशेषु भूपालेषु सार्थक्यं भजन्ते । अस्माकम् इतिहासे एतादृशाः नृपाः चिरप्रतिष्ठाम् अलभन्त । कदाचिद् वयं ब्रूमः यद् अस्माकं देशस्य 'भारतम्इति प्रसिद्द्धिकारणं कश्चनः 'भरतइति ख्यातनाम एव इति ।

कः राजा भवितुमर्हतीति कालिदासः स्वविरचितनाटके अभिज्ञानशाकुन्तले एवमभिप्रैति- "स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव ।

अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥इति ।

यथा वृक्षः सूर्यस्य तापमनुभवन् श्रान्त्या परितप्तानां छायाभिलाषिणां दुःखं प्रशमयति तथैव राजा रात्रिंदिवं स्वसुखं त्यजन् प्रजानां दुःखं दूरीकरोति । अतः प्रजारक्षणमेव तस्य आद्यं कर्तव्यं भवति । अष्टाङ्गयोगविज्ञानमन्दिरस्य अध्यक्षाः श्रीरङ्गमहागुरवः सदा एवं कथयन्ति स्म यद्- " देशस्य रक्षणार्थं राजा आवश्यकः । स राजा न केवलः इन्द्रियारामः अपि तु आत्मारामोऽपि भवेत् । अत एवोक्तम् 'आत्मवान् राजा'- यः आत्मवान् (आत्मगुणसम्पन्नः जितेन्द्रियःस राजा भवितुमर्हति" इति ।