Saturday, November 14, 2020

दीपः (deepah)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



यः स्वयं दीप्यते परान् च दीपयति स दीप इत्युच्यते । अस्य विषये ज्ञानसम्पादनाय अयम् उत्तमावसर इति मन्ये । यतो हि उत्तरत्र कार्तिकमासः आगमिष्यति । अयं मासः कृत्तिकानक्षत्रसम्बद्धोऽस्ति । अस्मिन् मासे पूर्णिमायां कृत्तिकानक्षत्रं घटते इत्ययं विशेषः । कृत्तिकानक्षत्रं तु अग्निदेवताकम् । अग्निः प्रकाशस्य अपरं नामास्ति खलु । तदर्थं अस्मिन् मासे वयं दीपावलीमहोत्सवं महता उत्साहेन आचरामः । अस्मिन् मासे दीपाराधनस्यापि महत्वं विद्यते । “ज्ञात्वा कर्माणि कुर्वीत” इत्यस्ति विधिः । ज्ञानं विना कृतं कर्म कदाचित् अपेक्षितफलं न दद्यात् । सति कर्मविषयकज्ञाने आराधनाय श्रद्धा वर्धते विश्वासः जागर्ति च । अतः दीपस्य विषये अस्माकं परम्परा किं वक्ति इति विचारयामः ।

दीपस्य भौतिकता
‘दीप्यते दीपयति वा स्वं परं चेति दीपः’ इति अस्य शब्दस्य व्युत्पत्तिरस्ति । दीपस्तु द्विविधोऽस्ति तैलदीपः घृतदीपश्चेति । अनेन ज्ञायते यत् अन्यान्यस्नेहैः दीपः न ज्वालनीयः इति । इदानीं तु कुत्रचित् येन केनापि स्नेहेन दीपज्वालनं दृश्यते । परन्तु तादृशज्वालनं निषिद्धमस्ति । कालिकापुराणे दीपस्य लक्षणं दीपपात्रं वर्तिविषयः तस्य फलम् इत्यादि-विषयाः निरूपिताः । घृतदीपः अत्यन्तप्रशस्तः तैलदीपः-तिलोद्भवस्नेहयुक्तः मध्यमः अन्यदीपास्तु अधमाः इत्युक्तम् । दीपपात्रं तु “तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् । तृणध्वजोद्भवं वापि दीपमात्रं प्रशस्यते” । तैजसं-सुवर्णनिर्मितं, दारवं-वृक्षभागेन निर्मितं, लौहं- ताम्रादिप्रशस्तद्रव्यनिर्मितं, मार्तिक्यं- मृत्तिकया निर्मितं, नारिकेलवृक्षभागेन कृतं, कैश्चित् तृणविशेषैः निर्मितं दीपपात्रं प्रज्वालने प्रशस्तमिति प्रसिद्धम् । तत्रापि दीपः कथं भवेत् इति वर्ण्यते- “सुवृत्तवर्तिसस्नेहपात्रेऽभग्ने सुदर्शने । मृण्मये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः” इति । कार्पासजां अथवा शणजां वर्तिं सम्यक् सम्पीडनं कृत्वा निर्मापयेत् । उपर्युक्तप्रशस्ते पात्रे स्नेहः घृतरूपः तैलरूपो वा भवेत् । दीपज्वाला तु सुदर्शना- द्रष्टुं बहु मनोहरं यथा भवति तथा स्यात् । अपि च स दीपः नेत्राह्लादकरः तापवर्जितः सुशिखः शब्दरहितः निर्धूमः अनतिह्रस्वः दक्षिणावर्तवर्तिः च स्यात् । एतादृशदीपेन श्रीः वर्धते । सर्वविधतुष्टिश्च जायते । कदापि दीपं मिश्रतैलेन न प्रज्वालयेत् । मिश्रतैलदीपेन श्रीः नश्यति इति प्रतीतिः अस्ति । अपि च न कदापि दीपं निर्वापयेत् । एवं गुणविशिष्टं दीपं यदा वयं प्रज्वालयामः तदा अस्माकं बाह्यान्धकारः आभ्यन्तरम् अज्ञानं चापगच्छति । अयं तु दीपस्य भौतिकविषयः । अत्र कोऽपि दैविकः आध्यात्मिकः विषयः अस्ति वा ज्ञातव्यः ।

दीपस्य  दैविकता आध्यात्मिकता च
“दीपमूले स्थितो ब्रह्मा दीपमध्ये जनार्दनः । दीपाग्रे शङ्करः प्रोक्तः तस्माद्दीपं नमाम्यहम् ॥“ इति दीपे ब्रह्मविष्णुशङ्कररुपत्रिमूर्तयः अस्माभिः विभाव्यन्ते । अयं दीपः योगिनाम् अन्तर्दृष्टिगोचरः साक्षाज्ज्योतीरूपः। ‘अन्तर्ज्योतिः किमपि यमिनाम् अञ्जनं योगदृष्टेः’ इति श्रूयते च । अयं दीपः तस्य स्ववर्णेन शिखया हृन्मध्ये विराजमानं देवं स्मारयति । दीपपात्रम् अस्माकं शरीरस्य प्रतीकमस्ति । अस्माकं गुरवः श्रीरङ्गमहागुरवः सर्वदा इमां वाणीं उद्घोषयन्ति स्म “विज्ञानमन्दिरे दीपमालासहस्रम् उद्दीपयाम” इति । एवं च दीपः अस्माकं भौतिकजीवने दैविकजीवने च महोपकारी भवति । अतः वयं सर्वदा दीपज्वालनेन जीवनस्य अन्धकारं दूरीकृत्य ज्योतिषांज्योतिषि तन्मयतां प्राप्नुवाम इति आशासे ।