Thursday, November 26, 2020

उत्थानद्वादशी (utthaanadvaadashee)


लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)




कार्तिकमासस्य शुक्लपक्षस्य द्वादशीतिथौ आचरिष्यमाणः उत्सवः 'उत्थानद्वादशी' इति । अस्यां तिथौ भगवान् विष्णुः शयनात्  उत्तिष्ठति । विष्णुः मासचतुष्टयात् पूर्वं निद्रितः । अतः अस्यां द्वादश्यां तिथौ तस्य उत्थानात् इदं दिनम् उत्थानद्वादशीति नाम्ना प्रथितः अभवत् । भगवतः शयनमपि अस्माकं उत्सवः तस्य उत्थानमपि च । एवं अस्य पर्वणः विशेषः कः ? किमर्थं वयम् उत्सवम् आचरामः इत्ययं विषयः चिन्तनीयः ।

निद्रा द्विविधा जाड्या अजाड्या इति । यदा तामसिकगुणाधिक्यप्रभवा प्राणिजातेषु दृश्यमाना निद्रा जाड्यनिद्रा इति कथ्यते । परन्तु सत्त्वगुणाधिक्यप्रभवा प्राणिजातेषु न दृश्यमाना अजाड्या । इयं निद्रा योगिनां मुनीनां भगवतः च । यदा वयं निद्रामः स कालः योगिनां जाग्रत् भवति । यः कालः भूतानां प्रतिबोधकः स मुनीनां योगनिद्राकालः । अस्माकम् एकः प्रश्नः समुदेति यत्- सामान्यानां योगिनां वा जाग्रत्-स्वप्न-सुषुप्ति-तुरीयाः इति अवस्थाः विद्यन्ते । परन्तु नित्यजागरूकस्य भगवतः कथम् एताः अवस्थाः सम्भवन्ति ? इति । अपि च उत्थानमिति पदस्य निद्रा इति पदम् विरुद्धार्थकं खलु ! उत्थानं निद्रायाः अनन्तरमेव सभवति । अतः भगवतः निद्रा वा उत्थानं वा कथं वक्तुं शक्यते इति । सत्यं मया यत्पूर्वमुक्तं निद्रा द्विविधा इति । "तत्र भगवतः निद्रा तु न अस्मन्निद्रासदृशी । स भगवान् अस्माकं रक्षणे जागरूकः सन् निद्रायाः मुद्रां प्रदर्शयति । तां मुद्रां वयं निद्रात्वेन व्यवहरामः" इति श्रीश्रीरङ्गप्रियस्वामिपादाः भगवतः निद्रायाः विवरणं प्रदत्तवन्तः । अत एव तां निद्रां "निद्रामुद्रां सकलजगतां रक्षणे जागरूकाम्" इति वर्णयन्ति । स सृष्ट्यादि-बहिर्व्यापारं योगनिद्रा-अवधिक-चतुर्षु मासेषु त्यक्तवान् इत्यर्थः । इतः परं तस्य सकलव्यापारः आरभ्यते इति यावत् । अत एव एतान् चतुरः मासान् 'चातुर्मास्यम्' इति सन्यासिनः व्रतमाचरन्ति । बहिर्मुखव्यापारं त्यक्त्वा अन्ताराज्ये विरमन्ति ते । अयं चातुर्मास्यकालः तपः कर्तुं सुयोग्यः इति मन्यन्ते । "योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादीननुगृह्णन्तं सौखशायनिकान् ऋषीन्" इति उक्त्यनुसारम् ऋषीन् अनुगृहीतुं भगवता एषा निद्रा आदृता इत्यपि भाव्यते । सामान्यतया विवाहादिशुभकार्याणि च त्यज्यन्ते एतेषु चतुर्षु मासेषु । एतानि कार्याणि बहिर्मुखानि इति कारणमत्र विद्यते । अतः कार्तिकमासतः विवाहादि-शुभकर्माणि आरभन्ते सर्वत्र । 

भारते सर्वत्र अयमुत्सवः 'तुलसीविवाहमहोत्सवः' इति आचर्यते । अस्मिन् शुभावसरे तुलसीमण्डपे तुलसीवृक्षस्य पूजा, तथा तस्य वृक्षस्य पार्श्वे आमलकवृक्षं संस्थाप्य, तस्मिन् वृक्षे महाविष्णोः प्रतिनिधित्वेन विभाव्य पूजापि क्रियते ।  ततः "देवीं कनकसम्पन्नां कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया " इति मन्त्रं पठित्वा सूत्रमेकं धात्रीवृक्षाय समर्प्यते । तस्मिन् दिने साक्षात् वैकुण्ठं भुवमवतरामः । भक्ष्यभोज्यादीन् भगवते निवेद्य प्रसादं स्वीकुर्मः । एवम् अयं शुभदिवसः अस्माकं सर्वविधजाड्यं निवार्य भगवतः प्रसादसिद्ध्यर्थम् उत्सवः इति आचर्यते ।