लेखकः – विद्वान् नरसिंह भट्टः
(प्रतिक्रियां दातुं शक्यते : lekhana@ayvm.in)
'व्यवहारः' इति पदस्य प्रयोगः अस्माकं दैनन्दिनजीवने दृश्यते । 'तस्य व्यवहारः सम्यक् नास्ति। अस्य व्यवहारः उत्तमः अस्ति । अस्य व्यवहारं विश्वस्य अहं वञ्चितोऽस्मि' इत्यादिवाक्यानि व्यवहारपदयुक्तानि दृश्यन्ते । एवं शुद्धव्यवहारः अशुद्धव्यवहारः इति द्वौ व्यवहारौ स्तः । तर्हि अस्य पदस्य व्याप्तिः का इति कदाचित् प्रश्नः उदेति । संस्कृते समान्यतया पदस्य अर्थविवरणं न सुलभम् । कुतः इति चेत् एकस्यैव पदस्य नानार्थकत्वम् अथवा नानार्थद्योतकत्वम् । अपि च कदाचित् उपसर्गस्य योगेन अर्थव्यत्ययो भवति । एवमेव 'व्यवहारः' इति पदेऽपि तादृशक्लेशः विद्यत एव । 'वि' 'अव' इत्युपसर्गद्वययोगेन हृञ्-हरणे इति धातुना घञ् प्रत्यययोगेन व्यवहार इति पदं व्युत्पद्यते । 'विवादो व्यवहारः स्यात्' इति अमरकोशानुसारेण अस्य पदस्य 'विवादः' इत्येकोऽर्थः लभ्यते । वाग्व्यवहारः लोकव्यवहारः इत्यादिषु व्यवहार इति पदम् एकां क्रियां वक्ति । अपि च न्यायः, पणः, स्थितिः इत्याद्यर्थाः अपि सन्ति । परन्तु इदानीं लोके एतत् पदम् असत्यं वञ्चनं इत्यादिषु अर्थेषु पर्यवसितम् । याज्ञवल्क्यस्मृतौ व्यवहारनामकः एकोऽध्यायोऽपि अस्ति । "वि-नानार्थे अव-सन्देहे हरणं हार उच्यते । नानासन्देहहरणात् व्यवहार इति स्थितिः ॥" इत्यत्र व्यवहारशब्दः संशयनिवर्तकार्थः भवति । धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः । व्यवहारोऽपि बलवान् धर्मस्तेनावहीयते ॥" इत्यत्र युक्तचिन्तनम् इत्यर्थः भासते । कुत्रचित् आदानप्रदानरूपक्रिया अनेन पदेन बोध्यते ।
पदविवरणम् –
आवरणस्य अपनयनेन विवरणं भवति खलु । अस्मिन् पदे किमावरणमासीत् । विवरणं कथं भवतीति अस्माकं महागुरुः श्रीरङ्गपदाभिधः प्रदर्शयति स्म । तत्कथमिति पश्यामः । 'अप' 'अव' इत्युपसर्गपूर्वकौ अपहारः अवहारः इति शब्दौ सामान्यतया समानार्थकौ भवतः । यः अस्मान् मार्गात् भ्रंशयति स अवहारः । तस्य विरुद्धार्थकपदं व्यवहारः इति । अयं व्यवहारः
अस्मान् रक्षति इत्यर्थः। येन सत्परिणामं भवति स व्यवहारः । येन दुष्परिणामः भवति स अवहारः । एतस्मिन्नेव अर्थे व्यवहारपदं उत्कृष्टार्थं बोधयति । अन्यथा तस्य पदस्य व्यर्थतासम्भवः । अतः व्यवहारपदस्य अपैशुन्यं वञ्चनराहित्यम् इत्यर्थाः भासन्ते। "वि- नानार्थे अव-सन्देहे हरणं हार उच्यते । नानासन्देहहरणात् व्यवहार इति स्थितिः ॥" इत्यत्र यः अर्थः उक्तः सोऽपि अन्वर्थः भवति । याज्ञवल्क्यमहर्षिणा उक्तः व्यवहाराध्यायोऽपि अमुमेवार्थं निरूपयति । धर्माविरोधिव्यवहारः कः ? धर्मप्रबोधकः व्यवहारः कः इति तत्र निरूपितोऽस्ति ।

एकेन उदाहरणेन विषयः स्पष्टः भविष्यति – कृषकः तस्य क्षेत्रे फलं प्राप्तुं बीजं वपते । स सस्यवर्धनाय पांशुप्रयोगः जलसेचनं क्षेत्रसंस्कारकरणम् इत्येवंरूपाणि कर्माणि कुरुते । तस्य कर्मभिः यदा फलं लभ्यते तदा तेन कृतानि कर्माणि व्यवहारपदयोग्यानि भवन्ति । अन्यथा अकाले जलसेचन-पांशुप्रयोग-क्षेत्रसंस्काराकरणम् इत्येवं रूपाणि कर्माणि फलावाप्तये साधनानि न भवन्ति । एतानि कर्माणि अवहार इति पदाभिधेयानि भवन्ति । एवं च सत्फलप्रापकः व्यवहारः इति, असत्फलप्रापकः अव्यवहारः अथवा अवहारः अपहारो वा भवति।