Tuesday, 13 April 2021

॥ श्रीरङ्गसद्गुरुः जीवनलक्ष्यं च ॥ (Sriranga Sadguru And The Goal Of Life)


 ॥ श्रीः ॥  
  डा. के एस् कण्णन्  DLitt.
SRSJM Chair Professor,
IIT-Madras, Chennai.  
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात्परंब्रह्म तस्मै श्रीगुरवे नमः ॥

साधारण्येन लोके जातः सर्वोऽपि मनुष्यः जीवने कदाचिद्वापि कुरुत एवात्माऽवलोकनम् । आत्माऽवलोकनं नाम न दर्पणस्य पुरतः स्थित्वा स्वप्रतिबिम्बपरिशीलनम् । तादृशस्वप्रतिबिम्बावलोकनं प्रत्यहं सम्पद्यत एव वारं वारम् । न केवलं फ़ोटोद्वारा, एषु दिनेषु मोबैल्-यन्त्रमुपयुज्य सेल्फ़ीग्रहणादपि तत्सम्भवत्येव । अस्तु नाम ।

लेखनारम्भे यदात्मावलोकनमिति प्रस्तुतं तन्नाम "कोऽहं वस्तुतः?" इति प्रश्नस्य उपस्थितिः स्वस्य मनसि । अस्य प्रश्नस्य अनुपदमेव प्रश्नद्वयं स्वयमुपस्थितं भवति - "कुत आयातोऽहम्? क्व च गमिष्यामि?" - इति । एतान् प्रश्नान् अनु , चिन्ताप्यपरा स्वम् उपस्थापयति - "कथं तर्हि मम जीवनं यापनीयम्?" - इति ।

प्रश्नाः सुलभाः । उत्तराणि तावत् न सुलभानि । अलब्धे चोत्तरे यथाकथञ्चित् कालयापनं भविष्यत्येव । सर्वे यत् कुर्वन्ति तदेवाऽहमपि विदध्याम् - इति तावतैव तृप्यन् नयति कालम् ।

एषा च परिपाटी साधारणानाम् एव । चतुरास्तावत् प्रश्न-परिशीलने तस्योत्तरसम्पादने च पुनः पुनः प्रयतन्त एव । उक्तं हि पाश्चात्त्येन कुशलेन जनेन साक्रटीस् (Socrates)-नामकेनेत्थम् - "The unexamined life is not worth living" इति । अर्थात्, "समीक्षारहितं यत्तु व्यर्थं तज्जीवितं खलु" इति ।

"कोऽस्मि?" "क्व यामि?" "कथं च जीवामि?" - इत्यादिपरिभावनं धीमन्तं परिक्लेशयत्येवावश्यम् । प्रतिदिनं प्रश्नोऽयं बाधते । स्वचरितसमालोकनविषये महर्षिभिर्वामीकिभिः प्रोक्तमेव खलु - "प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं? किं नु सत्पुरुषैरिति? ॥" - इति । ईदृशस्य प्रतिदिवसपरिवीक्षणस्य भवत्येवावश्यकता ।

कस्तर्हि भेदः पशुजीवन-मनुष्यजीवनयोः ? तस्यापि प्रसिद्धमेव मनीषिणामुत्तरम् । आह भर्तृहरिः स्वकीये नीतिशतके - "आहार-निद्रा-भय-मैथुनं च सामान्यमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषः ज्ञानेन हीनः पशुभिः समानः ॥" इति ।

प्रसङ्गेऽस्मिन्नपरः प्रश्नोऽप्युदेति । किं नु पशवः सर्वथा ज्ञानहीनाः ? वस्तुतस्तु "पश्यन्तीति पशवः" इति हि व्युत्पत्तिः "पशु"-शब्दस्य?  पशूनां पश्यति-क्रिया नाम इन्द्रियजन्यस्य ज्ञानस्यैव सम्पादनम् ।

इन्द्रियलभ्यज्ञानाधिकं नाम ज्ञानं नराणां लक्षणमिति तर्हि पर्यवस्यति । कीदृशं तर्हीदं ज्ञानमिति प्रश्नः सिद्ध एव । प्रश्नस्यास्य न सुलभमुत्तरम् ।

ननु भाषाज्ञानं मनुष्याणां प्राणिविलक्षणम् ज्ञानं भवति खलु? - इति मनुष्यज्ञानस्य विशिष्टत्वं केचन सूचयन्ति । अस्त्येषा समस्या विज्ञानिनामपि मनसि - यत्प्राणिनः भाषाशालिनो वा न वेति । परन्तु यादृशः परिष्कारः मनुष्यभाषासु संलक्ष्यते न तादृशः कोऽपि लक्ष्यते प्राणिभिरादृते "सम्भाषण"-क्रमे - इत्यपि विज्ञानिनः मन्यन्त एव ।

विज्ञानिनाम् अमीषामेव चिन्तनसरणिम् अंशतः अङ्गीकुर्वन्तोऽपि श्रीरङ्गमहागुरवः मनुष्यजन्म-वैलक्षण्यं विशिष्टेन प्रकारेण प्रत्यपादयन् । प्राणिस्तोमे काचन शरीरविकासपद्धतिः बहुसहस्रवर्ष-कालमानलक्ष्य-चिह्नराशि-परिशीलनक्रमेण गोचरीभवति ।अत्र च कालक्रमतः कार्टेक्स्-नियोकार्टेक्स् (cortex, neocortex) – इत्यभिध-मस्तिष्काङ्ग-विकासः विज्ञानिभिरपि लक्षितो वर्तते ।

परन्तु विज्ञानिभिरत्याधुनिकैरपि मस्तिष्काध्ययनं समाप्तमिति वा समाप्तप्रायमिति वा वक्तुं नैव पार्यते । वस्तुतस्तु तस्य नामारम्भस्तरे एव वयं स्म इत्युररीक्रियते तैरेव !

भारतीयज्ञानिपरम्परा तावत् प्राणिमात्रागोचरं मनुष्यलभ्यं ज्ञानं नाम आत्मज्ञानमित्येवोद्घोषयति । उक्तमापस्तम्बेन महर्षिणा धर्मसूत्रे - "आत्मलाभान्न परं विद्यते" इति । इन्द्रियलभ्यं ज्ञानं, ततश्च लभ्यं सुखं च, अल्पविषयकम् अशाश्वतं च । परन्तु "तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् " इति जघुषुर्भारतीया ऋषयः ।

तच्च ज्ञानं सर्वथा न सुकरमित्यपि सुविदितमेव । परन्तु तादृशं ज्ञानम् आत्मसात्कृत्य अन्येषामपि तादृशस्य मार्गस्य उद्घाटनं विहितवान् श्रीरङ्गो महागुरुः । अनेन दर्शितस्य मार्गस्य वैशिष्ट्यं किम्? - इति कुतुकं सहजमेव । तद्विषये विस्तरेण वक्तव्यं भवति । तच्च पुरस्तात् प्रपञ्चयिष्यते – इत्युक्त्वा, गुरुचरणयोः प्रणम्य विरमामः । 

  


To know more about Astanga Yoga Vijnana Mandiram (AYVM) please visit our Official Website, Facebook and Twitter pages