Wednesday, 10 March 2021

महाशिवरात्रिमहोत्सवः (mahaashivaraatrimahotsavah)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



महादेवः अस्मिन् उत्सवे प्रधानतया आरधयिष्यते । स एव 'शिवरात्रिमहोत्सवः' । तत्रापि रात्रावेव अयम् उत्सवः इति विशेषः । तर्हि अमुम् उत्सवं किमर्थं रात्रावेव आचरामः? अस्य उत्सवस्य विशेषः कः? महाशिवरात्रिमहोत्सवस्य वैशिष्ट्यबोधिका कापि कथा अस्ति वा ? इति विचारयामः ।

पुराणकथा
गरुडपुराणे एका कथा अस्ति । एकदा कश्चन पापी सुन्दरसेनको नामकः निषादराजः कुक्कुरैः सह मृगयार्थं वनं गतः । कालातीतोऽपि मृगाः अप्राप्ताः । क्षुत्पिपासाभ्यां पीडितः । रात्रौ एकस्मिन् तडागतीरे जाग्रतास्थितः । तदा स्वशरीरं रक्षन् एकं लिङ्गम् अपश्यत् । लिङगस्य मूर्ध्नि बहूनि पर्णानि अपतन् । एष निषादः तानि पर्णानि तिरोधाय लिङ्गस्योपरि नीरं च असिञ्चत् । तस्य करपल्लवात् शरः भूमौ अपतत् । ततः जानुभ्याम् नमस्कारं कृत्वा लिङ्गं स्पृष्ट्वा स्नानं पूजनं चाकरोत् । तावता कालेन प्रातः समभवत्। गृहमागत्य भार्यासहितः स अन्नं भुक्तवान् । तस्य शरीरावसान कालेऽपि तं यमभटाः पाशैः बन्धितुम् अशक्ताः अभवन्। एवं च अज्ञानतः कृतस्य शिवपूजनस्य फलेन निषादस्य अमरत्वं सम्प्राप्तम् इति । अविधिपूर्वकस्य पूजनस्यैव एतादृशामरत्वरूपं फलं लभ्यते चेत् श्रद्धभक्तियुतायाः पूजायाः किमुत। अतः शिवपूजनम् अतिशीघ्रफलदायकमस्ति। तर्हि तस्य पूजा कथं करणीया? कदा करणीया? इति किञ्चित् पश्यामः ।

पूजाकालः
"ततो रात्रौ प्रकुर्वीत शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजां चैव विशेषतः॥" इति वाक्यं, शिवपूजा रात्रौ प्रतियामं कर्तव्या इति सूचयति । शिवभक्तो वा विष्णुभक्तो वा भवतु अस्यां रात्रौ अवश्यं शिवपूजनं करणीयमेव । अस्मिन् दिने यः शिवपूजां न करोति तस्य आसंवत्सरकृतं पूजाफलं नश्यति इति शास्त्राणि शासति । प्रतिमासं कृष्णचतुर्दश्यां 'मासशिवरात्रिः' इति नाम्ना आचर्यते। तत्रापि माघमासस्य अथवा कुत्रचित् फाल्गुनमासस्य कृष्णपक्ष-चतुर्दश्याम् अयं शिवरात्रिमहोत्सवः उत्साहेन आचर्यते । अतः अयमेव महाशिवरात्रिनाम्ना प्रसिद्धः जातः । सामान्यतः रात्रिः देवपूजार्थं न प्रशस्यते । परन्तु शिवपूजा रात्रावेव प्रशस्ता । अत्र अस्माकं गुरूणां श्रीरङ्गवर्याणां वचः स्मर्तव्यम् – "शिवरात्रिः महारात्रिः अस्ति । एषा दुष्टानां कृते काळरात्रिः सिद्धानां च सुखरात्रिः चास्ति । सामान्यजीविनां सामान्यरात्रिः अन्तर्दर्शनयुक्तानां महात्मनां कृते तु विचित्ररात्रिः । अन्तः अनुभूतस्य ज्ञानानन्दस्य उत्सवं बहिरपि आचरितुम् अयमुत्सवः ज्ञानिनां महद्योगदानमस्ति " इति । रात्रिः तमःप्रधाना । रात्रिः संहारकालस्य प्रतिनिधिः । इन्द्रियाणाम् आकुञ्चनकालः । कर्मचेष्टां त्यक्त्वा, जीवानां मानसिकविश्रान्तिकालः । दुष्टानां संहाराय अयं प्रशस्तकालः

कुतः इति चेत् तेषां सहजसञ्चारसमयः । एवं भगवतः महादेवस्य श्क्त्युद्भवाय अयं सुसमयः । अत एव शिवाराधनाय रात्रिः उत्तमा इति ख्याता ।

स्नानप्रियः शिवः

"अभिषेकप्रियः शिवः" इति शिवस्य स्नानम् अतिविशिष्यते । सर्वत्र शिवस्य प्रतिमा इत्युक्ते लिङ्गमेव । तस्योपरि अभिषेकः क्रियते । यजुर्वेदान्तर्गत-रुद्रानुवाकस्य मन्त्रजपपुरःसरम् अभिषेकः सामान्यतया प्रचलति । तत्रापि शिवरात्रिदिने विशेषोऽस्ति । रात्रौ चतुर्षु यामेषु पृथक् पृथक् पूजा भवति । तत्र क्षिरेण प्रथमयामे, दध्ना द्वितीययामे, आज्येन तृतीययामे मधुना चतुर्थे यामे अभिषेकः करणीयः इति विशेषोऽक्तः।

उत्सवाचरणम्
अस्मिन् पर्वणि जागरणम् उपवासः इत्यंशौ प्रधानौ । अतः उपवासं कृत्वा ज्ञानपूर्वकं ध्यान-कीर्तन-पूजन- दान- हवनादिभिः शिवं आराधयेत् । रात्रौ चतुर्षु यामेषु अभिषेकः कार्यः । अर्क-करवीर-बिल्व-वकुल-धत्तूर- बृहती-पुष्पैः शिवनामभिः पूजयेत् । आवाहनादि-षोडशोपचारैः पूजयित्वा अग्नौ सर्षपं चरुं च जुहुयात् । सूर्योदयानन्तरं पारणं च कर्तव्यम् । एवं विविधप्रकारैः शिवम् आराध्य शिवत्वं सम्पादनीयम् । उत्सवानाम् आचरणं यथा भगवत्प्रसादसिध्यर्थं तथैव अस्य महाशिवरात्रिमहोत्सवस्य आचरणमपि तत्रैव पर्यवस्यति ।


To know more about Astanga Yoga Vijnana Mandiram (AYVM) please visit our Official Website, Facebook and Twitter pages