लेखकः – विद्वान् नरसिंह भट्टः
‘धर्मः’ इति पदम् अस्माभिः बहुधा बहुत्र श्रूयते । परन्तु धर्मः इति पदस्य अर्थः अवगतो वा इति प्रश्नः समुदेति । उत्तरं तु ‘न’ इति । यतो हि “धर्मस्य तत्त्वं निहितं गुहायाम्” इति । अस्माकं पूर्वजानाम् आघोषः योऽस्ति चेत् पदज्ञानं पदार्थाधीनम् । तर्हि पदार्थः कः ? पदार्थम् अवगन्तुम् इदानीं प्रयत्नः करणीयः ।
धर्मो धरति
धरति लोकान् ध्रियते पुण्यात्मभिः इति व्युत्पत्त्या ‘धर्मः’ इति पदं धृञ् धातुना निष्पन्नम् । यः लोकान् धरति स च धर्मः इत्युक्ते भगवान् । एष भगवान् पुण्यात्मभिः सनातनार्यभारतमहर्भिः धृतः अतः स धर्मः । वस्तुतः धर्मपदस्य अर्थः अस्य जगतः यन्मूलमस्ति तत् परब्रह्मवस्तु धर्मपदवाच्यम् इति निर्विवादम् । एतादृशः धर्मः अस्माभिः अवगन्तव्यः । परन्तु स च गुहायां निहितः । तर्हि गुहायां निहितस्य अस्य भगवद्धर्मस्य अवगमनं कथमिति सर्वत्र शोधनं दृश्यते । बहवः शोधयितारः कृतपरिश्रमाः अनाप्ताः । केचन आप्तफलाः । आप्तानां शुश्रूषया स च अवगन्तव्यः ।
धर्मो द्विधः
अस्माकं गुरवः योगिवरेण्यः श्रीश्रीरङ्गमहाभागः अस्य पदस्य विवरणं सुखेन बोधः यथा भवति तथा दीयते स्म । अस्य विवरणम् एवमस्ति – “वस्तुतः धर्मः द्विविधः साध्यधर्मः साधनधर्मश्चेति । अस्माभिः यत् साध्यते स साध्यधर्मः । यं कञ्चन धर्मं साधयितुं यत् उपकरणं भवति स साधनधर्मः” इति । मानवमात्रेण भगवत्साक्षात्कारः कर्तव्यः । अतः स साध्यधर्मः । तदर्थं अस्माभिः नित्यनैमित्तिकादिरूपाणि कर्माणि क्रियन्ते । यादृशैः कर्मभिः भगवत्साक्षात्कारः भवति तादृशानि कर्माणि साधनधर्मपदेन व्यपदिश्यन्ते ।
धर्मो रक्षति रक्षितः
यः धर्मं रक्षति स च धर्मः तं रक्षति । एकम् उदाहरणम्- नयनेन वयं पश्यमः । दर्शनयोग्यत्वं नयनस्य धर्मः भवति । यदा नयनं अस्माभिः रक्ष्यते तदा तेन नयनेन वयं द्रष्टुं शक्नुयाम । नयनरक्षणे वयं जागरूकतया भवेम । यः कोऽपि पाषाणशकलेन ताडयितुं प्रयतते तदा करेण तं शकलं निवारयति । करापेक्षया नयनरक्षणं प्रधानम् । नयनरक्षणेन जीवरक्षणं भवति । एवमेव धर्मरक्षणेन धर्मः अस्मान् रक्षति ।