Tuesday, 4 February 2020

मोक्षमार्गौ (Mokshamaargou)

लेखकः – विद्वान् नरसिंह भट्टः
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)
अष्टाङ्ग-योग-विज्ञान-मन्दिरस्य स्थापकाध्यक्षाः योगिवरेण्याः श्रीरङ्गमहागुरवः मोक्षविषयकानि नानावचांसि विभिन्नकालेषु उक्तवन्तः एव आसान् । “यथा भारतवर्षस्य प्रत्येकस्य जनस्यापि अष्टादशवर्षात् स्वमतं स्थापयितुम् अधिकारः भवति तथा मोक्षः जन्ममात्रस्य प्रतिमानवस्य कर्तव्यः” इति । अत एव मोक्षः मानवमात्रेण अधिगन्तव्यः । तत् कथमधिगन्तव्यमित्यत्र साधनं शोधनं बोधनं च निरन्तरं प्रचलदस्ति । अनेन बहवः जीवनस्य सार्थकताम् अन्वभवन् । तान् ऋषिः महर्षिः इत्यादि पदैः व्यपदिश्यते । तैरेव अन्वेषितौ मार्गौ कौ ? “ लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञायोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥“ (गीता ४.३)
-हे अर्जुन ! अस्मिन् लोके द्वौ मार्गौ स्तः इति मया पूर्वमेव प्रोक्तं किल । ज्ञानमार्गेण सांख्याः कर्ममार्गेण योगिनः मोक्षम् आप्नुवन् । एवं च ज्ञानी ज्ञानेन कर्मठः कर्मणा च मोक्षं प्राप्नुयात् । तर्हि ‘मोक्ष’ इत्युक्ते किम् । तस्य स्वरूपं किम् इत्यादि बोधेन अस्माभिः तदर्थं प्रयत्नः करणीयः भवति । मोक्षः- मोचनं विमोचनं मुक्तिः । भगवतः विभक्तः जीवः पुनः तत्रैव भक्तः भवेत् । यथा पदार्थं विक्रेतुम् गृहात् आपणं गतः बालः पुनः गृहमेव प्राप्तव्यम् । स च बालः यदि गृहं विस्मृत्य तत्रैव रमते चेत् कथं भवेत् । भगवता प्राप्तं विवेकमनुपयुज्य भगवन्तमेव विस्मरति । विस्मरणशीलेन ‘पुनरपि मरणं पुनरपि जननम्” इति संसारचक्रे परिभ्रमति । परन्तु यदा कदा वा यथा पुनः गृहगमनं स्वाभाविकं तथैव ज्ञानेन कर्मणा वा विवेकं सम्पाद्य भगवतः सामीप्यं सम्पादनीयम् । संसारचक्रात् मुक्तिश्च प्राप्तव्या । अयमेव मोक्षः इत्युच्यते ।
कः ज्ञानमार्गः
ज्ञानमित्युक्ते प्रकाशः आनन्दः परब्रह्म । अस्य अनुभवः अस्तित्वं च बोधरूपेण प्राप्यते चेत् स च मार्गः ज्ञानमार्गः । तत्कथमिति ईश्यावास्योपनिषत् उपदिशति –“ ईशावास्यमिदं सर्वम्” इति । चराचरात्मकेषु अणुरेणुतृनकाष्ठेषु परब्रह्मणः अद्वैतं तथैव “विद्याविनसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥“ निर्दोषस्य समस्य ब्रह्मणः दर्शनं यस्य भवति स च ज्ञानी इत्युच्यते । तत्त्र समदर्शित्वात् शोकमॊहादीनाम् अविद्याकामकर्मणाम् अवकाशः नास्त्येव । अनेन जीवः मुक्तः भवति ।
कः कर्ममार्गः
अन्यः कर्ममार्गः । “कर्मणैव हि संसिद्धिमास्थिताः जनकादयः” यज्ञादन्यत् कर्म बन्धनाय । श्वासोछ्वासादारभ्य अग्निहोत्रपर्यन्तं सर्वोऽपि यज्ञ एव । एतादृशं कर्म मोचनाय भवति न बन्धाय । शिष्टानाम् सर्वोऽपि आचारः मोचक एव । तथैव ध्यानं तपः इत्यादि मनोनिग्राहकाणि कर्माणि तथा यज्ञयागादि इन्द्रियनिग्राहकानि कर्माणि च कर्मबन्धात् विमुच्यते । न तत्र कर्मलेपः । एतादृशकर्मणा जीवः मुक्तः भवति । अन्ये भक्तिराजरूपाः मार्गाः अत्रैव अन्तर्भवतीति न पार्थक्यं भजन्ते इत्यलं विस्तारेण ।


To know more about Astanga Yoga Vijnana Mandiram (AYVM) please visit our Official Website, Facebook and Twitter pages