Showing posts with label lang_sanskrit. Show all posts
Showing posts with label lang_sanskrit. Show all posts

Tuesday, February 8, 2022

भगवते सूर्याय नमः (Bhagavate Suryaya Namah)

 लेखकः – डा. के एस् कण्णन् 

(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



अस्मिन् रथसप्तमी-सुपर्व-समये भगवतः आदित्यस्य पूजा सर्वैरपि भारतीयैः समाचर्यते । कोऽयमादित्यः? किमर्थं तस्य वरिवस्या (पूजनम्)? - इति विषयम् अधिकृत्य द्वित्राणि वाक्यानि भागवतानां पुरस्तात् न्यस्यन्ते ।

सूर्य-निर्देशकानि नामानि उपपञ्चाशत् वर्तन्ते अमरकोशे । तेजोमूर्तिः सन् जगतः प्रभां ददाति सूर्यः । अत एव सः भास्करः इति, प्रभाकरः विभाकरः इति, भानुः भास्वान् इति  च उच्यते । खद्योतः द्युमणिः दिवाकरः अहस्करः - इति शब्दाः अपि तस्य तेजःप्रदत्वमेव निर्दिशन्ति । अहर्पतिः त्विषांपतिः दिनमणिः - इत्येते शब्दाः अपि अमुमेव भावं द्योतयन्ति । विशेषेण रोचते भ्राजते इति सः विरोचनः इत्यपि कथ्यते ।

"ग्रहाणामादिरादित्यः" इति हेतुना सः ग्रहपतिः इत्यप्युच्यते । सर्वं प्रपञ्चं, सदा पश्यति इति कारणात् जगच्चक्षुः सः । सर्वेषां सर्वकर्मणां साक्षिभूतः सः कर्मसाक्षी इत्यप्युच्यते । लोकबान्धवः पद्मिनीवल्लभः इति नामनी तस्य स्वभावं निरूपयन्ति । तस्य किरणाः उष्णाः इति कारणेन सः उष्णरश्मिः इत्युच्यते । तस्य रश्मयः सङ्ख्यातीताः, अतः सहस्रांशुः इत्यपि तस्यैव अभिधानम् ।

वस्तुतः भा-शब्दः ज्ञानवाची । "भास्"-शब्दोऽपि तथैव । अत एव भायां रताः भारताः (एवमेव भासि रताः भारताः) इत्यभिधीयन्ते । "ज्योतिर्वत् ज्ञानानि भवन्ति" इति व्याकरण-महाभाष्य-कर्तुः पतञ्जलेः वचनम् । अनेन नयेन ये ज्ञाने रमन्ते ते "भारताः" । नहि ज्ञानादपि किञ्चिदुत्तमं जगति । यथोक्तं भगवद्गीतायां - "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।" इति । "सर्वं कर्माखिलं पार्थं ज्ञाने परिसमाप्यते" इत्यपि गीतावाक्यं श्रीरङ्गमहागुरोः अतिप्रियं वचनमेव ।

एवं च यथार्थतः सूर्यस्य रश्मयः न सन्ति - इत्यपि श्रीरङ्गमहागुरुभिः प्रतिपादितम् । यदि नेत्रयोः पक्ष्माणि श्लेषकद्रवेण (gum) एकीकृतानि भवन्ति, तदा रश्मयः नैव गोचरीभवन्ति - इत्यपि सूक्ष्मदर्शिभिः श्रीगुरुभिः प्रयोगरूपेण यत् प्रतिपादितम् तद् अत्र स्मरामः ।

सूर्यस्य भौतिकं रूपम् एकं भवति, अपरं च दैविकं रूपम् । तस्य मण्डले भगवान् नारायणः वर्तते - इति कारणेन "ध्येयः सदा सवितृ-मण्डल-मध्य-वर्ती नारायणः सरसिजासन-संनिविष्टः" इति सन्ध्यावन्दन-समये वयं प्रत्यहं स्मरामः ।

योगाभ्यासारम्भे सूर्यनमस्कारः क्रियते । सूर्यः द्वादशात्मा इत्युच्यते, अतः द्वादश-नामोच्चारण-पूर्वकः द्वादशाऽऽसनैः सूर्य-नमस्कारो विधीयते ।

सूर्यः वेदरूपः ; त्रयो वेदाः तस्य शरीर-भागाः । अतः "त्रयी-मूर्तिः" इति सः कथ्यते । एषा त्रय्येव विद्या तपति - इति वेदः भगवन्तं सूर्यं स्तौति । सर्व-कर्म-प्रेरकः सः - इति अनेन हेतुना सः सूर्यः इत्युच्यते । "सुष्ठु ईरयति प्रेरयति [सर्वान् सर्वकर्मसु] - इति व्युत्पत्त्या सः सूर्यः ।

लोक-धारक-धर्मः सूर्ये वर्तते । सृष्टेः धारणं पालनं च भगवतो विष्णोः कार्यम् । गीतास्वपि "आदित्यानाम् अहं विष्णुः" - इत्येव वाक्यम् ।

यथा उषोदेवी प्रत्यहं दृश्यमाना नूतना एव लक्ष्यते तथा सूर्योऽपि । अत एव वेदे उषसो वर्णनम् "पुनः पुनर्जायमाना पुराणी" इति, सूर्यस्य च "नवो नवो भवति जायमानः" इति ।

बाह्यं कार्यं वा, आन्तरं कार्यं वा अस्तु, तत् प्राण-शक्त्या एव संभवति । अत एव सूर्योदय-समये "प्राणः प्रजानाम् उदयत्येष सूर्यः" इति स्तूयते सः ।

प्राणस्य च आत्मनश्च नैकट्यं महदेव । अत एव सूर्यस्य मूलभूतं तत्त्वं नाम "सूर्य आत्मा जगतः तस्थुषश्च" इति श्रुत्या  निरूप्यते । अर्थात् स्थावराणां जङ्गमानां च आत्मभूतः सः - इत्येव वैदिकं दर्शनम् ।

सूर्यस्य लोकोपकारकत्वं महत् - इति निरूपयितुमेव कालिदासः "सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः" इति वर्णयति । लोक-रक्षणार्थं सूर्यः सर्वदा उद्युक्तः इति सूचयन् कालिदासः, धर्मिष्ठो दुष्यन्तः सूर्य इव - इति दर्शयति - "भानुः सकृद्-युक्त-तुरङ्ग एव" इति श्लोकेन ।

श्रीरङ्ग-महागुरूणां प्रियम् एकं श्लोकम् अत्र संस्मृत्य विरमामः । स च श्लोकः महाभारतीयः । स एवम् -
"द्वाविमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।
परिव्राड् योग-युक्तश्च रणे चाऽभिमुखो हतः ॥" इति ।
अर्थात् द्वयोरेव मोक्षः सिद्ध्यति । योग-मार्ग-गामी परिव्राजकः एकः, रणे च शत्रोरपराङ्मुखो योधः अपरः । सूर्य-मण्डल-भेदी मोक्ष-भाग् भवति । तस्य संसार-चक्रे पुनरागमनं न भविष्यति ।

"अर्क-मण्डल-मध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्माऽदि-सेव्य-पादाऽब्जं नौमि ब्रह्म रमा-सखम् ॥"

॥ श्रीरङ्गार्पणमस्तु ॥


Tuesday, May 25, 2021

नरसिंहावतार-कथा-तत्त्वम् (Narasimhavatara - Katha - Tattvam)

डा. के एस् कण्णन्  DLitt.
SRSJM Chair Professor,
IIT-Madras, Chennai.  
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



"उत्सवप्रियाः खलु मनुष्याः" - इत्यभिदधता कालिदासेन मानवसामान्यान्तरङ्गमेव परामृष्टमिति सुवचम् । व्याजं कमपि विनिर्मायाप्युत्सवेषु व्याप्रियमाणा दरीदृश्यन्ते जनाः ।

साधारणजनानेव मनसिकृत्य सरलभाषयैव गहनान् विषयान् प्रतिपादयन्ति पुराणान्यपि पर्वकालसम्बद्धान्बहूनुत्सवान् निरूपयन्ति । ईदृक्षपर्वकालाऽऽचर्यमाणोत्सवानां सङ्ख्या यथाऽपरिमिता वर्तते, तद्वदेव तत्तत्प्रसङ्गनिर्वर्त्यमाना आचारविशेषाः पाकप्रकाराश्च परिपाठेन निदर्शयितुं न शक्यन्ते । पर्वाणि च तानि भगवदवतारानेवाभिलक्षयन्ति । अनन्तास्सन्तोऽप्यवतारास्समानलक्ष्यकास्सन्तोऽपि प्रकारान्नैकानाविष्कुर्वन्ति ।

धर्मग्लानिः
यदा यदा हि धर्मस्येति प्रसिद्धगीताभणित्यनुसारमेव धर्मग्लानिप्रतिविधानं कर्तुकामो भगवांस्तदा तदाऽवतरति । का नाम धर्मग्लानिः? ग्लानि-म्लानी समानार्थिके । नैरस्यापन्नानि कुसुमानि नाम म्लायन्ति यद्वत्तद्वदेव धर्मोऽपि ग्लायति। दम्भशालिषु तावज्जृम्भमाणैर्बाह्याचरणैस्सम्यक्त्वप्रतीतिकारिता विराजते ; परन्तु सारभागो धर्मो रिक्तीभूत एव । यथा यथाऽसुराः प्रबलास्सञ्जायन्ते, तथा तथा धर्मग्लानिरवश्यम्भाविनी । हिरण्याक्ष-हिरण्यकशिप्वोर्हेतोस्सञ्जातं धर्मपराभवमभिभावयितुं भगवदवतारापेक्षा समजनि | प्रकृते च हिरण्यकशिपोस्संहारार्थकं नरसिंहावतारं किञ्चिदिव समीक्षितुं समीहामहे ।

हिरण्यकशिपुना विहितस्य तपस औग्र्यमभिनन्दन्ब्रह्मा साश्चर्यं स्वयमुज्जगार "नैतत्पूर्वर्षयश्चक्रुः!" इति ! वृणीष्व काङ्क्षितं वरमिति च । स्वस्य सशरीरस्यामर्त्यतां सिषाधयिषुर्हिरण्यकशिपुः "नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि" इत्यप्राक्षीद्वरम् ।

लब्धवरो दैत्योऽयं हेममयं वपुर्बिभ्राणो निरस्तमृत्युभीतिस्सन्नचिराल्लोककण्टक एव समजायत । मर्माणि विध्यन्तं तमसहमाना देवास्स्थितिकारकं विष्णुं भृशं प्रार्थयामासुः । "अचिरादसौ स्वपुत्रं प्रह्लादमेव व्यथयिष्यति मद्भक्तं, यदेव निमित्तीकृत्य भङ्क्ष्यामि तमसुरमिति वीतचिन्ता भवत" - इत्याश्वास्य विससर्ज तान् विष्णुर्भगवान् ।

"भागवतेषु स्थानं प्राथमिकं खलु भजत्येष प्रह्लादः" - इति पूज्याः श्रीरङ्गप्रियस्वामिनः युक्तमेवोचुः । यतो हि "प्रह्लादो जन्मवैष्णवः" इति किल गीयते । "मदीयः पुत्रस्सन् मामकीनं वैरिणमेव विष्णुमसावभिपूजयति" इत्यतिमात्रं क्रुध्यन् हिरण्यकशिपुर्विधाभिर्विविधाभिः क्रूराभिः प्रह्लादमर्दयामास । "क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते?" इति दुरुक्तीरभिभाषमाण एव हिरण्ये, "अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्" ! एवमाविर्भूयासुरमिमं लीलया नखैर्ददार व्यापादयामास च । घटनाया अमुष्याः स्मारणर्थकोऽयमुत्सव आचर्यते ।

अवतार-तत्त्वम्
रहस्यभूतान् द्वित्रानंशानत्रानुसन्दध्मः । प्रथमोंऽशोऽयं यत्त्रिमूर्तिसङ्गमस्थानभूतोऽसौ भगवान्नरसिंहः । यथाऽहुः प्राञ्चः -
"आनाभेर्ब्रह्मणो रूपमागलाद् वैष्णवं वपुः । आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम्॥" इति ।

द्वितीयोंऽशस्सन्ध्याकालसम्बद्धः । आन्तरिक्यास्सन्ध्यायाः प्रतीकभूतोऽयं योगशास्त्रोपलक्षितं लयविक्षेपसन्धिभूतं प्रशस्तं समयमेव संसूचयति ।

तृतीयश्चायमंशः - को नामाऽयं स्तम्भः यत्राऽत्मानमाविर्भावयाम्बभूव भगवान्नरसिंहः? योगिपुङ्गवैश्श्रीरङ्गमहागुरुभिःप्रतीचीनदर्शनैस्समीचीनतया यथा प्रत्यपादि, तथाऽस्मदीयपृष्ठवंश एवासौ, य एव मेरुस्तम्भ इत्यप्यभिधां धत्ते । सुषुम्नायां गोचरीभवन्नन्तर्ज्योतिरन्तर्नादयोर्योग एवासौ योगमूर्तिर्नृसिंहः । सुयोगस्यास्य संप्राप्तिरेव धर्मसारो धर्मरसश्च सर्वग्लानिपरिहारकः ।

ऐकलक्ष्यम्
महता तपसा महद्बलं सम्पाद्य स्वहित-परहितसंसाधने सर्वथा समर्थस्सन्नपि हिरण्यकशिपुस्स्वहानिपरहानी एव समासादितवान् । यत्र यत्र बलं स्वं स्थानं वा दुष्ठूपयुङ्क्ते कश्चित्तत्र तत्र धर्मग्लानिःकृतपदैवेति मन्तव्यम्। औग्र्यं रोगस्य प्रतिकर्तुमनुरूपां योगमयीं मूर्तिं बिभ्रदसौ नरसिंहः प्रेरयेन्नस्सर्वान्साध्व्यां सरण्याम् - "तन्नो नारसिंहः प्रचोदयात्" ! - इति शम् ।

Tuesday, April 13, 2021

॥ श्रीरङ्गसद्गुरुः जीवनलक्ष्यं च ॥ (Sriranga Sadguru And The Goal Of Life)


 ॥ श्रीः ॥  
  डा. के एस् कण्णन्  DLitt.
SRSJM Chair Professor,
IIT-Madras, Chennai.  
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात्परंब्रह्म तस्मै श्रीगुरवे नमः ॥

साधारण्येन लोके जातः सर्वोऽपि मनुष्यः जीवने कदाचिद्वापि कुरुत एवात्माऽवलोकनम् । आत्माऽवलोकनं नाम न दर्पणस्य पुरतः स्थित्वा स्वप्रतिबिम्बपरिशीलनम् । तादृशस्वप्रतिबिम्बावलोकनं प्रत्यहं सम्पद्यत एव वारं वारम् । न केवलं फ़ोटोद्वारा, एषु दिनेषु मोबैल्-यन्त्रमुपयुज्य सेल्फ़ीग्रहणादपि तत्सम्भवत्येव । अस्तु नाम ।

लेखनारम्भे यदात्मावलोकनमिति प्रस्तुतं तन्नाम "कोऽहं वस्तुतः?" इति प्रश्नस्य उपस्थितिः स्वस्य मनसि । अस्य प्रश्नस्य अनुपदमेव प्रश्नद्वयं स्वयमुपस्थितं भवति - "कुत आयातोऽहम्? क्व च गमिष्यामि?" - इति । एतान् प्रश्नान् अनु , चिन्ताप्यपरा स्वम् उपस्थापयति - "कथं तर्हि मम जीवनं यापनीयम्?" - इति ।

प्रश्नाः सुलभाः । उत्तराणि तावत् न सुलभानि । अलब्धे चोत्तरे यथाकथञ्चित् कालयापनं भविष्यत्येव । सर्वे यत् कुर्वन्ति तदेवाऽहमपि विदध्याम् - इति तावतैव तृप्यन् नयति कालम् ।

एषा च परिपाटी साधारणानाम् एव । चतुरास्तावत् प्रश्न-परिशीलने तस्योत्तरसम्पादने च पुनः पुनः प्रयतन्त एव । उक्तं हि पाश्चात्त्येन कुशलेन जनेन साक्रटीस् (Socrates)-नामकेनेत्थम् - "The unexamined life is not worth living" इति । अर्थात्, "समीक्षारहितं यत्तु व्यर्थं तज्जीवितं खलु" इति ।

"कोऽस्मि?" "क्व यामि?" "कथं च जीवामि?" - इत्यादिपरिभावनं धीमन्तं परिक्लेशयत्येवावश्यम् । प्रतिदिनं प्रश्नोऽयं बाधते । स्वचरितसमालोकनविषये महर्षिभिर्वामीकिभिः प्रोक्तमेव खलु - "प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं? किं नु सत्पुरुषैरिति? ॥" - इति । ईदृशस्य प्रतिदिवसपरिवीक्षणस्य भवत्येवावश्यकता ।

कस्तर्हि भेदः पशुजीवन-मनुष्यजीवनयोः ? तस्यापि प्रसिद्धमेव मनीषिणामुत्तरम् । आह भर्तृहरिः स्वकीये नीतिशतके - "आहार-निद्रा-भय-मैथुनं च सामान्यमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषः ज्ञानेन हीनः पशुभिः समानः ॥" इति ।

प्रसङ्गेऽस्मिन्नपरः प्रश्नोऽप्युदेति । किं नु पशवः सर्वथा ज्ञानहीनाः ? वस्तुतस्तु "पश्यन्तीति पशवः" इति हि व्युत्पत्तिः "पशु"-शब्दस्य?  पशूनां पश्यति-क्रिया नाम इन्द्रियजन्यस्य ज्ञानस्यैव सम्पादनम् ।

इन्द्रियलभ्यज्ञानाधिकं नाम ज्ञानं नराणां लक्षणमिति तर्हि पर्यवस्यति । कीदृशं तर्हीदं ज्ञानमिति प्रश्नः सिद्ध एव । प्रश्नस्यास्य न सुलभमुत्तरम् ।

ननु भाषाज्ञानं मनुष्याणां प्राणिविलक्षणम् ज्ञानं भवति खलु? - इति मनुष्यज्ञानस्य विशिष्टत्वं केचन सूचयन्ति । अस्त्येषा समस्या विज्ञानिनामपि मनसि - यत्प्राणिनः भाषाशालिनो वा न वेति । परन्तु यादृशः परिष्कारः मनुष्यभाषासु संलक्ष्यते न तादृशः कोऽपि लक्ष्यते प्राणिभिरादृते "सम्भाषण"-क्रमे - इत्यपि विज्ञानिनः मन्यन्त एव ।

विज्ञानिनाम् अमीषामेव चिन्तनसरणिम् अंशतः अङ्गीकुर्वन्तोऽपि श्रीरङ्गमहागुरवः मनुष्यजन्म-वैलक्षण्यं विशिष्टेन प्रकारेण प्रत्यपादयन् । प्राणिस्तोमे काचन शरीरविकासपद्धतिः बहुसहस्रवर्ष-कालमानलक्ष्य-चिह्नराशि-परिशीलनक्रमेण गोचरीभवति ।अत्र च कालक्रमतः कार्टेक्स्-नियोकार्टेक्स् (cortex, neocortex) – इत्यभिध-मस्तिष्काङ्ग-विकासः विज्ञानिभिरपि लक्षितो वर्तते ।

परन्तु विज्ञानिभिरत्याधुनिकैरपि मस्तिष्काध्ययनं समाप्तमिति वा समाप्तप्रायमिति वा वक्तुं नैव पार्यते । वस्तुतस्तु तस्य नामारम्भस्तरे एव वयं स्म इत्युररीक्रियते तैरेव !

भारतीयज्ञानिपरम्परा तावत् प्राणिमात्रागोचरं मनुष्यलभ्यं ज्ञानं नाम आत्मज्ञानमित्येवोद्घोषयति । उक्तमापस्तम्बेन महर्षिणा धर्मसूत्रे - "आत्मलाभान्न परं विद्यते" इति । इन्द्रियलभ्यं ज्ञानं, ततश्च लभ्यं सुखं च, अल्पविषयकम् अशाश्वतं च । परन्तु "तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् " इति जघुषुर्भारतीया ऋषयः ।

तच्च ज्ञानं सर्वथा न सुकरमित्यपि सुविदितमेव । परन्तु तादृशं ज्ञानम् आत्मसात्कृत्य अन्येषामपि तादृशस्य मार्गस्य उद्घाटनं विहितवान् श्रीरङ्गो महागुरुः । अनेन दर्शितस्य मार्गस्य वैशिष्ट्यं किम्? - इति कुतुकं सहजमेव । तद्विषये विस्तरेण वक्तव्यं भवति । तच्च पुरस्तात् प्रपञ्चयिष्यते – इत्युक्त्वा, गुरुचरणयोः प्रणम्य विरमामः । 

  

Wednesday, March 10, 2021

महाशिवरात्रिमहोत्सवः (mahaashivaraatrimahotsavah)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



महादेवः अस्मिन् उत्सवे प्रधानतया आरधयिष्यते । स एव 'शिवरात्रिमहोत्सवः' । तत्रापि रात्रावेव अयम् उत्सवः इति विशेषः । तर्हि अमुम् उत्सवं किमर्थं रात्रावेव आचरामः? अस्य उत्सवस्य विशेषः कः? महाशिवरात्रिमहोत्सवस्य वैशिष्ट्यबोधिका कापि कथा अस्ति वा ? इति विचारयामः ।

पुराणकथा
गरुडपुराणे एका कथा अस्ति । एकदा कश्चन पापी सुन्दरसेनको नामकः निषादराजः कुक्कुरैः सह मृगयार्थं वनं गतः । कालातीतोऽपि मृगाः अप्राप्ताः । क्षुत्पिपासाभ्यां पीडितः । रात्रौ एकस्मिन् तडागतीरे जाग्रतास्थितः । तदा स्वशरीरं रक्षन् एकं लिङ्गम् अपश्यत् । लिङगस्य मूर्ध्नि बहूनि पर्णानि अपतन् । एष निषादः तानि पर्णानि तिरोधाय लिङ्गस्योपरि नीरं च असिञ्चत् । तस्य करपल्लवात् शरः भूमौ अपतत् । ततः जानुभ्याम् नमस्कारं कृत्वा लिङ्गं स्पृष्ट्वा स्नानं पूजनं चाकरोत् । तावता कालेन प्रातः समभवत्। गृहमागत्य भार्यासहितः स अन्नं भुक्तवान् । तस्य शरीरावसान कालेऽपि तं यमभटाः पाशैः बन्धितुम् अशक्ताः अभवन्। एवं च अज्ञानतः कृतस्य शिवपूजनस्य फलेन निषादस्य अमरत्वं सम्प्राप्तम् इति । अविधिपूर्वकस्य पूजनस्यैव एतादृशामरत्वरूपं फलं लभ्यते चेत् श्रद्धभक्तियुतायाः पूजायाः किमुत। अतः शिवपूजनम् अतिशीघ्रफलदायकमस्ति। तर्हि तस्य पूजा कथं करणीया? कदा करणीया? इति किञ्चित् पश्यामः ।

पूजाकालः
"ततो रात्रौ प्रकुर्वीत शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजां चैव विशेषतः॥" इति वाक्यं, शिवपूजा रात्रौ प्रतियामं कर्तव्या इति सूचयति । शिवभक्तो वा विष्णुभक्तो वा भवतु अस्यां रात्रौ अवश्यं शिवपूजनं करणीयमेव । अस्मिन् दिने यः शिवपूजां न करोति तस्य आसंवत्सरकृतं पूजाफलं नश्यति इति शास्त्राणि शासति । प्रतिमासं कृष्णचतुर्दश्यां 'मासशिवरात्रिः' इति नाम्ना आचर्यते। तत्रापि माघमासस्य अथवा कुत्रचित् फाल्गुनमासस्य कृष्णपक्ष-चतुर्दश्याम् अयं शिवरात्रिमहोत्सवः उत्साहेन आचर्यते । अतः अयमेव महाशिवरात्रिनाम्ना प्रसिद्धः जातः । सामान्यतः रात्रिः देवपूजार्थं न प्रशस्यते । परन्तु शिवपूजा रात्रावेव प्रशस्ता । अत्र अस्माकं गुरूणां श्रीरङ्गवर्याणां वचः स्मर्तव्यम् – "शिवरात्रिः महारात्रिः अस्ति । एषा दुष्टानां कृते काळरात्रिः सिद्धानां च सुखरात्रिः चास्ति । सामान्यजीविनां सामान्यरात्रिः अन्तर्दर्शनयुक्तानां महात्मनां कृते तु विचित्ररात्रिः । अन्तः अनुभूतस्य ज्ञानानन्दस्य उत्सवं बहिरपि आचरितुम् अयमुत्सवः ज्ञानिनां महद्योगदानमस्ति " इति । रात्रिः तमःप्रधाना । रात्रिः संहारकालस्य प्रतिनिधिः । इन्द्रियाणाम् आकुञ्चनकालः । कर्मचेष्टां त्यक्त्वा, जीवानां मानसिकविश्रान्तिकालः । दुष्टानां संहाराय अयं प्रशस्तकालः

कुतः इति चेत् तेषां सहजसञ्चारसमयः । एवं भगवतः महादेवस्य श्क्त्युद्भवाय अयं सुसमयः । अत एव शिवाराधनाय रात्रिः उत्तमा इति ख्याता ।

स्नानप्रियः शिवः

"अभिषेकप्रियः शिवः" इति शिवस्य स्नानम् अतिविशिष्यते । सर्वत्र शिवस्य प्रतिमा इत्युक्ते लिङ्गमेव । तस्योपरि अभिषेकः क्रियते । यजुर्वेदान्तर्गत-रुद्रानुवाकस्य मन्त्रजपपुरःसरम् अभिषेकः सामान्यतया प्रचलति । तत्रापि शिवरात्रिदिने विशेषोऽस्ति । रात्रौ चतुर्षु यामेषु पृथक् पृथक् पूजा भवति । तत्र क्षिरेण प्रथमयामे, दध्ना द्वितीययामे, आज्येन तृतीययामे मधुना चतुर्थे यामे अभिषेकः करणीयः इति विशेषोऽक्तः।

उत्सवाचरणम्
अस्मिन् पर्वणि जागरणम् उपवासः इत्यंशौ प्रधानौ । अतः उपवासं कृत्वा ज्ञानपूर्वकं ध्यान-कीर्तन-पूजन- दान- हवनादिभिः शिवं आराधयेत् । रात्रौ चतुर्षु यामेषु अभिषेकः कार्यः । अर्क-करवीर-बिल्व-वकुल-धत्तूर- बृहती-पुष्पैः शिवनामभिः पूजयेत् । आवाहनादि-षोडशोपचारैः पूजयित्वा अग्नौ सर्षपं चरुं च जुहुयात् । सूर्योदयानन्तरं पारणं च कर्तव्यम् । एवं विविधप्रकारैः शिवम् आराध्य शिवत्वं सम्पादनीयम् । उत्सवानाम् आचरणं यथा भगवत्प्रसादसिध्यर्थं तथैव अस्य महाशिवरात्रिमहोत्सवस्य आचरणमपि तत्रैव पर्यवस्यति ।

Friday, December 25, 2020

व्यवहारः (Vyavahaarah)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



पदस्यार्थः- 
'व्यवहारः' इति पदस्य प्रयोगः अस्माकं दैनन्दिनजीवने दृश्यते । 'तस्य व्यवहारः सम्यक् नास्ति। अस्य व्यवहारः उत्तमः अस्ति । अस्य व्यवहारं विश्वस्य अहं वञ्चितोऽस्मि' इत्यादिवाक्यानि व्यवहारपदयुक्तानि दृश्यन्ते । एवं शुद्धव्यवहारः अशुद्धव्यवहारः इति द्वौ व्यवहारौ स्तः । तर्हि अस्य पदस्य व्याप्तिः का इति कदाचित् प्रश्नः उदेति । संस्कृते समान्यतया पदस्य अर्थविवरणं न सुलभम् । कुतः इति चेत् एकस्यैव पदस्य नानार्थकत्वम् अथवा नानार्थद्योतकत्वम् । अपि च कदाचित् उपसर्गस्य योगेन अर्थव्यत्ययो भवति । एवमेव 'व्यवहारः' इति पदेऽपि तादृशक्लेशः विद्यत एव । 'वि' 'अव' इत्युपसर्गद्वययोगेन हृञ्-हरणे इति धातुना घञ् प्रत्यययोगेन व्यवहार इति पदं व्युत्पद्यते । 'विवादो व्यवहारः स्यात्' इति अमरकोशानुसारेण अस्य पदस्य 'विवादः' इत्येकोऽर्थः लभ्यते । वाग्व्यवहारः लोकव्यवहारः इत्यादिषु व्यवहार इति पदम् एकां क्रियां वक्ति । अपि च न्यायः, पणः, स्थितिः इत्याद्यर्थाः अपि सन्ति । परन्तु इदानीं लोके एतत् पदम् असत्यं वञ्चनं इत्यादिषु अर्थेषु पर्यवसितम् । याज्ञवल्क्यस्मृतौ व्यवहारनामकः एकोऽध्यायोऽपि अस्ति । "वि-नानार्थे अव-सन्देहे हरणं हार उच्यते । नानासन्देहहरणात् व्यवहार इति स्थितिः ॥" इत्यत्र व्यवहारशब्दः संशयनिवर्तकार्थः भवति । धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः । व्यवहारोऽपि बलवान् धर्मस्तेनावहीयते ॥" इत्यत्र युक्तचिन्तनम् इत्यर्थः भासते । कुत्रचित् आदानप्रदानरूपक्रिया अनेन पदेन बोध्यते ।

पदविवरणम् –
आवरणस्य अपनयनेन विवरणं भवति खलु । अस्मिन् पदे किमावरणमासीत् । विवरणं कथं भवतीति अस्माकं महागुरुः श्रीरङ्गपदाभिधः प्रदर्शयति स्म । तत्कथमिति पश्यामः । 'अप' 'अव' इत्युपसर्गपूर्वकौ अपहारः अवहारः इति शब्दौ सामान्यतया समानार्थकौ भवतः । यः अस्मान् मार्गात् भ्रंशयति स अवहारः । तस्य विरुद्धार्थकपदं व्यवहारः इति । अयं व्यवहारः

अस्मान् रक्षति इत्यर्थः। येन सत्परिणामं भवति स व्यवहारः । येन दुष्परिणामः भवति स अवहारः । एतस्मिन्नेव अर्थे व्यवहारपदं उत्कृष्टार्थं बोधयति । अन्यथा तस्य पदस्य व्यर्थतासम्भवः । अतः व्यवहारपदस्य अपैशुन्यं वञ्चनराहित्यम् इत्यर्थाः भासन्ते। "वि- नानार्थे अव-सन्देहे हरणं हार उच्यते । नानासन्देहहरणात् व्यवहार इति स्थितिः ॥" इत्यत्र यः अर्थः उक्तः सोऽपि अन्वर्थः भवति । याज्ञवल्क्यमहर्षिणा उक्तः व्यवहाराध्यायोऽपि अमुमेवार्थं निरूपयति । धर्माविरोधिव्यवहारः कः ? धर्मप्रबोधकः व्यवहारः कः इति तत्र निरूपितोऽस्ति ।

एकेन उदाहरणेन विषयः स्पष्टः भविष्यति – कृषकः तस्य क्षेत्रे फलं प्राप्तुं बीजं वपते । स सस्यवर्धनाय पांशुप्रयोगः जलसेचनं क्षेत्रसंस्कारकरणम् इत्येवंरूपाणि कर्माणि कुरुते । तस्य कर्मभिः यदा फलं लभ्यते तदा तेन कृतानि कर्माणि व्यवहारपदयोग्यानि भवन्ति । अन्यथा अकाले जलसेचन-पांशुप्रयोग-क्षेत्रसंस्काराकरणम् इत्येवं रूपाणि कर्माणि फलावाप्तये साधनानि न भवन्ति । एतानि कर्माणि अवहार इति पदाभिधेयानि भवन्ति । एवं च सत्फलप्रापकः व्यवहारः इति, असत्फलप्रापकः अव्यवहारः अथवा अवहारः अपहारो वा भवति।

Thursday, November 26, 2020

उत्थानद्वादशी (utthaanadvaadashee)


लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)




कार्तिकमासस्य शुक्लपक्षस्य द्वादशीतिथौ आचरिष्यमाणः उत्सवः 'उत्थानद्वादशी' इति । अस्यां तिथौ भगवान् विष्णुः शयनात्  उत्तिष्ठति । विष्णुः मासचतुष्टयात् पूर्वं निद्रितः । अतः अस्यां द्वादश्यां तिथौ तस्य उत्थानात् इदं दिनम् उत्थानद्वादशीति नाम्ना प्रथितः अभवत् । भगवतः शयनमपि अस्माकं उत्सवः तस्य उत्थानमपि च । एवं अस्य पर्वणः विशेषः कः ? किमर्थं वयम् उत्सवम् आचरामः इत्ययं विषयः चिन्तनीयः ।

निद्रा द्विविधा जाड्या अजाड्या इति । यदा तामसिकगुणाधिक्यप्रभवा प्राणिजातेषु दृश्यमाना निद्रा जाड्यनिद्रा इति कथ्यते । परन्तु सत्त्वगुणाधिक्यप्रभवा प्राणिजातेषु न दृश्यमाना अजाड्या । इयं निद्रा योगिनां मुनीनां भगवतः च । यदा वयं निद्रामः स कालः योगिनां जाग्रत् भवति । यः कालः भूतानां प्रतिबोधकः स मुनीनां योगनिद्राकालः । अस्माकम् एकः प्रश्नः समुदेति यत्- सामान्यानां योगिनां वा जाग्रत्-स्वप्न-सुषुप्ति-तुरीयाः इति अवस्थाः विद्यन्ते । परन्तु नित्यजागरूकस्य भगवतः कथम् एताः अवस्थाः सम्भवन्ति ? इति । अपि च उत्थानमिति पदस्य निद्रा इति पदम् विरुद्धार्थकं खलु ! उत्थानं निद्रायाः अनन्तरमेव सभवति । अतः भगवतः निद्रा वा उत्थानं वा कथं वक्तुं शक्यते इति । सत्यं मया यत्पूर्वमुक्तं निद्रा द्विविधा इति । "तत्र भगवतः निद्रा तु न अस्मन्निद्रासदृशी । स भगवान् अस्माकं रक्षणे जागरूकः सन् निद्रायाः मुद्रां प्रदर्शयति । तां मुद्रां वयं निद्रात्वेन व्यवहरामः" इति श्रीश्रीरङ्गप्रियस्वामिपादाः भगवतः निद्रायाः विवरणं प्रदत्तवन्तः । अत एव तां निद्रां "निद्रामुद्रां सकलजगतां रक्षणे जागरूकाम्" इति वर्णयन्ति । स सृष्ट्यादि-बहिर्व्यापारं योगनिद्रा-अवधिक-चतुर्षु मासेषु त्यक्तवान् इत्यर्थः । इतः परं तस्य सकलव्यापारः आरभ्यते इति यावत् । अत एव एतान् चतुरः मासान् 'चातुर्मास्यम्' इति सन्यासिनः व्रतमाचरन्ति । बहिर्मुखव्यापारं त्यक्त्वा अन्ताराज्ये विरमन्ति ते । अयं चातुर्मास्यकालः तपः कर्तुं सुयोग्यः इति मन्यन्ते । "योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादीननुगृह्णन्तं सौखशायनिकान् ऋषीन्" इति उक्त्यनुसारम् ऋषीन् अनुगृहीतुं भगवता एषा निद्रा आदृता इत्यपि भाव्यते । सामान्यतया विवाहादिशुभकार्याणि च त्यज्यन्ते एतेषु चतुर्षु मासेषु । एतानि कार्याणि बहिर्मुखानि इति कारणमत्र विद्यते । अतः कार्तिकमासतः विवाहादि-शुभकर्माणि आरभन्ते सर्वत्र । 

भारते सर्वत्र अयमुत्सवः 'तुलसीविवाहमहोत्सवः' इति आचर्यते । अस्मिन् शुभावसरे तुलसीमण्डपे तुलसीवृक्षस्य पूजा, तथा तस्य वृक्षस्य पार्श्वे आमलकवृक्षं संस्थाप्य, तस्मिन् वृक्षे महाविष्णोः प्रतिनिधित्वेन विभाव्य पूजापि क्रियते ।  ततः "देवीं कनकसम्पन्नां कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया " इति मन्त्रं पठित्वा सूत्रमेकं धात्रीवृक्षाय समर्प्यते । तस्मिन् दिने साक्षात् वैकुण्ठं भुवमवतरामः । भक्ष्यभोज्यादीन् भगवते निवेद्य प्रसादं स्वीकुर्मः । एवम् अयं शुभदिवसः अस्माकं सर्वविधजाड्यं निवार्य भगवतः प्रसादसिद्ध्यर्थम् उत्सवः इति आचर्यते ।

Saturday, November 14, 2020

दीपः (deepah)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



यः स्वयं दीप्यते परान् च दीपयति स दीप इत्युच्यते । अस्य विषये ज्ञानसम्पादनाय अयम् उत्तमावसर इति मन्ये । यतो हि उत्तरत्र कार्तिकमासः आगमिष्यति । अयं मासः कृत्तिकानक्षत्रसम्बद्धोऽस्ति । अस्मिन् मासे पूर्णिमायां कृत्तिकानक्षत्रं घटते इत्ययं विशेषः । कृत्तिकानक्षत्रं तु अग्निदेवताकम् । अग्निः प्रकाशस्य अपरं नामास्ति खलु । तदर्थं अस्मिन् मासे वयं दीपावलीमहोत्सवं महता उत्साहेन आचरामः । अस्मिन् मासे दीपाराधनस्यापि महत्वं विद्यते । “ज्ञात्वा कर्माणि कुर्वीत” इत्यस्ति विधिः । ज्ञानं विना कृतं कर्म कदाचित् अपेक्षितफलं न दद्यात् । सति कर्मविषयकज्ञाने आराधनाय श्रद्धा वर्धते विश्वासः जागर्ति च । अतः दीपस्य विषये अस्माकं परम्परा किं वक्ति इति विचारयामः ।

दीपस्य भौतिकता
‘दीप्यते दीपयति वा स्वं परं चेति दीपः’ इति अस्य शब्दस्य व्युत्पत्तिरस्ति । दीपस्तु द्विविधोऽस्ति तैलदीपः घृतदीपश्चेति । अनेन ज्ञायते यत् अन्यान्यस्नेहैः दीपः न ज्वालनीयः इति । इदानीं तु कुत्रचित् येन केनापि स्नेहेन दीपज्वालनं दृश्यते । परन्तु तादृशज्वालनं निषिद्धमस्ति । कालिकापुराणे दीपस्य लक्षणं दीपपात्रं वर्तिविषयः तस्य फलम् इत्यादि-विषयाः निरूपिताः । घृतदीपः अत्यन्तप्रशस्तः तैलदीपः-तिलोद्भवस्नेहयुक्तः मध्यमः अन्यदीपास्तु अधमाः इत्युक्तम् । दीपपात्रं तु “तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् । तृणध्वजोद्भवं वापि दीपमात्रं प्रशस्यते” । तैजसं-सुवर्णनिर्मितं, दारवं-वृक्षभागेन निर्मितं, लौहं- ताम्रादिप्रशस्तद्रव्यनिर्मितं, मार्तिक्यं- मृत्तिकया निर्मितं, नारिकेलवृक्षभागेन कृतं, कैश्चित् तृणविशेषैः निर्मितं दीपपात्रं प्रज्वालने प्रशस्तमिति प्रसिद्धम् । तत्रापि दीपः कथं भवेत् इति वर्ण्यते- “सुवृत्तवर्तिसस्नेहपात्रेऽभग्ने सुदर्शने । मृण्मये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः” इति । कार्पासजां अथवा शणजां वर्तिं सम्यक् सम्पीडनं कृत्वा निर्मापयेत् । उपर्युक्तप्रशस्ते पात्रे स्नेहः घृतरूपः तैलरूपो वा भवेत् । दीपज्वाला तु सुदर्शना- द्रष्टुं बहु मनोहरं यथा भवति तथा स्यात् । अपि च स दीपः नेत्राह्लादकरः तापवर्जितः सुशिखः शब्दरहितः निर्धूमः अनतिह्रस्वः दक्षिणावर्तवर्तिः च स्यात् । एतादृशदीपेन श्रीः वर्धते । सर्वविधतुष्टिश्च जायते । कदापि दीपं मिश्रतैलेन न प्रज्वालयेत् । मिश्रतैलदीपेन श्रीः नश्यति इति प्रतीतिः अस्ति । अपि च न कदापि दीपं निर्वापयेत् । एवं गुणविशिष्टं दीपं यदा वयं प्रज्वालयामः तदा अस्माकं बाह्यान्धकारः आभ्यन्तरम् अज्ञानं चापगच्छति । अयं तु दीपस्य भौतिकविषयः । अत्र कोऽपि दैविकः आध्यात्मिकः विषयः अस्ति वा ज्ञातव्यः ।

दीपस्य  दैविकता आध्यात्मिकता च
“दीपमूले स्थितो ब्रह्मा दीपमध्ये जनार्दनः । दीपाग्रे शङ्करः प्रोक्तः तस्माद्दीपं नमाम्यहम् ॥“ इति दीपे ब्रह्मविष्णुशङ्कररुपत्रिमूर्तयः अस्माभिः विभाव्यन्ते । अयं दीपः योगिनाम् अन्तर्दृष्टिगोचरः साक्षाज्ज्योतीरूपः। ‘अन्तर्ज्योतिः किमपि यमिनाम् अञ्जनं योगदृष्टेः’ इति श्रूयते च । अयं दीपः तस्य स्ववर्णेन शिखया हृन्मध्ये विराजमानं देवं स्मारयति । दीपपात्रम् अस्माकं शरीरस्य प्रतीकमस्ति । अस्माकं गुरवः श्रीरङ्गमहागुरवः सर्वदा इमां वाणीं उद्घोषयन्ति स्म “विज्ञानमन्दिरे दीपमालासहस्रम् उद्दीपयाम” इति । एवं च दीपः अस्माकं भौतिकजीवने दैविकजीवने च महोपकारी भवति । अतः वयं सर्वदा दीपज्वालनेन जीवनस्य अन्धकारं दूरीकृत्य ज्योतिषांज्योतिषि तन्मयतां प्राप्नुवाम इति आशासे ।

Monday, October 26, 2020

एक एव देवः, न नाना (Ek Ev Devah, Devah Naana)

लेखकः – विद्वान् नरसिंह भट्टः 
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



'एकं सद् विप्राः बहुधा वदन्ति' इति काचन श्रुतिरस्ति। सदिति अरूपम् अव्यक्तं नित्यं शाश्वतं च एकमेव अस्ति । तत्तु 'देव' इति पदेन वयं व्यवहरामः । परन्तु त्रयस्त्रिंशत् कोटिदेवाताः सन्ति । अथापि एकः देवः इति व्यवहारः असाधुः इति केषाञ्चन वादः श्रूयते। आपाततः स वादः सत्यमिव भाति । परन्तु स देवः एक एव सन् नाना रूपेण विराजते । इदं कथं युज्यते? 

एकस्मिन् गृहे गृहस्थः भवति । स भार्यायै पतिः भवति तत्र पतिरूपेण कार्यं करोति । पुत्राय पिता भवति तत्र पितृरूपेण कार्यं करोति । सहोदराणां कृते भ्राता भवति तत्र सहोदरत्वं निर्वहति। यदा स याने भवति तं यात्रिकः इति उपचरतन्ति । एवं एक एव यथा पतिः पिता भ्राता यात्रिकः इत्यादिपदव्यवहार्यः भवति तथैव एक एव देवः तत्तत् कार्यानुगुणं विविधनामानि विधत्ते । सृष्टेः पूर्वं स एकः अद्वयः परब्रह्मनामकः आसीत् । यदा तस्मिन् 'बहुधा व्याकरवाणि' इति सङ्कल्पः अजायत तदाप्रजापतिरूपम् अधत्त ।सृष्टिकार्ये निरतस्य ब्रह्मणः रूपविशेष एव प्रजापतिः इति कथ्यते । स प्रजापतिः आत्मानं  प्रकृतिपुरुषरूपेण विभक्तवान् ।

तयोः पुरुषप्रकृत्योः संयोगेन प्रथमा सृष्टिरभवत् । स प्रजापतिः उत्तरत्र सृष्टिकार्यं निरन्तरं एतावत्पर्यन्तम् अविच्छिन्नरूपेण निरवहत् । यदा स सृष्टिं करोति स ब्रह्मा इति नाम्ना प्रथितः सञ्जातः । सा सृष्टिः एकैनैव रूपेण न तिष्ठति । निरन्तरम् अनुवर्तते । बीजं स्वस्वरूपेण वर्तते चेत् तदा तस्य उपयोगः कदापि न भवति । बीजं अङ्कुरशाखोपशाखापुष्पफलरूपेण पुनः बीजरुपे पर्यवसानं गच्छति । तदा नैकं बीजं फलति । अनन्तानि बीजानि भूत्वा लोकोपकाराय कल्पते । एवमेव ब्रह्मा सृष्टिं करोति । तां सृष्टिं काचित् शक्तिरेव पालयति । तां शक्तिं विष्णुः इति नाम्ना व्यवहरन्ति । एवमेव बीजं न केवलं शाखोपशाखारूपेण  विवर्धते । अपि तु कदाचित् तस्य लयोऽपि भवति । तस्मिन् लयेऽपि काचन शक्तिः अभ्युपगन्तव्या । सा शक्तिः शिवः इति ख्यातः । एवं प्रवर्तिता सृष्टिः एतावत्कालपर्यन्तम् अनवरतं स्वस्वशक्तिरूपेण परिवर्तयन्ती अस्ति । अस्यां सृष्टौ न शक्तित्रयमलम् । विघ्ननिवारकत्वेन विनायकं विघ्नकर्तृत्वरूपेण विघ्नराजं-विघ्नेशं वयं भावयाम । एवमेव यथा पुरुषशक्तिरस्ति तथा स्त्रीशक्तिरपि अस्ति । तदा दुर्गा-सरस्वती-लक्ष्मीरूपेण भावयाम । एतस्मिन् क्रमे कार्यानुगुणं अस्माभिः त्रयस्त्रिंशद्देवतानां भावना क्रियते । वस्तुतः एक एव देवः एतादृशविविधकार्याणां निर्वहणं कर्तुं स्वरूपं बहुधा व्यरचयत् । 

प्रतिदिनं वयं गुरुस्तुतिं पठामः "गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः" इति । एक एव गुरुः सन् ब्रह्मविष्णुशिवरूपेण विवर्तः सन् अग्रे स्वयं परब्रह्मापि भवति । एवं एकः एव देवः वा त्रयस्त्रिशत् कोटिदेवाः इति संशयः निरस्तः ।

Monday, October 5, 2020

आत्मराजः (Athmarajaha)

लेखकः – विद्वान् नरसिंह भट्टः

(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



'भा'-प्रकाशाधारिता अस्माकं राज्यव्यवस्था । अत एवास्माकं देशः भारतम् इति विख्यातम् । राज्ये राजा प्रधानः । तमनुसरन्ति निखिला जनाः । 'राजृ-दीप्तौ' इत्यर्थकेन धातुना 'राजा' इति पदस्य व्युत्पत्तिः। दीप्तिः, प्रकाशस्वरूपः राजा भवति । प्रकाशः स्वतः प्रकाशः तथैव परप्रकाशकोऽपि । यथा शरीरे आत्मा एव प्रधानः तथैव राज्ये राजा प्रधानो भवति । सनातनार्षपरम्पारा एतादृशशरीरराज्यमवलम्ब्य राज्यव्यस्थामकारि । 

"एतद्राज्यं नान्यदस्तीह राज्यं आत्मैव राजा विदितो यथावत्" इतिरीत्या यथा अस्य शरीरस्य राजा आत्मा भवति तथैव अस्य देशस्य राजापि आत्मप्रतिनिधिभूत एव भवति । आत्मनः आज्ञामनुल्लङ्घ्य सर्वाणि अङ्गानि स्वेस्वे कर्मण्यभिरमन्ते । यदा प्रधानस्यात्मनः विरुद्धकर्माणि कुर्वन्ति तदा तेषामस्तित्वे हानिः सम्पद्येत । अतः आत्मनः मनसा, मनसः इन्द्रियेण, इन्द्रियस्य अर्थेन सामरस्यं यदा भवति तदैव शरीरस्य स्वास्थ्यं भवति । अन्यथा अस्वस्थता इति व्यवहारः । एवमेव राज्येऽपि राज्ञः शासनमनुसरन्तः सर्वे अधिकारिणः स्वनियोजितकार्यतत्पराः चेत् तदा राज्यस्य सुभिक्षता सम्भवति । तर्हि तत्कथं साधनीयमिति किञ्चिज्जानीमः ।

राजा सर्वविद्यासम्पन्नः सुशिक्षितो भवेत् । राजा लोकव्यवहारे समर्थः सन् अलौकिकव्यवहारे च स्वप्रजाभ्यः आदर्शः भवेत् । यदा राजा धर्मे मतिमान् भवति स सर्वेषां प्रियो भवति । स न्यायान्यायौ कर्तव्याकर्तव्ये युक्तायुक्तौ च जानाति । तादृशेन राज्ञा उत्तमराज्यपालनं निरीक्षितुं शक्नुमः । स राजा ऋषितुल्यः भूत्वा राजर्षिपदवीम् अवाप्नोति । 'राजा विष्णुवत्पूज्यः' "न अविष्णुः पृथिवीपतिः' इत्यादिप्रसिद्धोक्तयः एतादृशेषु भूपालेषु सार्थक्यं भजन्ते । अस्माकम् इतिहासे एतादृशाः नृपाः चिरप्रतिष्ठाम् अलभन्त । कदाचिद् वयं ब्रूमः यद् अस्माकं देशस्य 'भारतम्' इति प्रसिद्द्धिकारणं कश्चनः 'भरत' इति ख्यातनाम एव इति ।

कः राजा भवितुमर्हतीति कालिदासः स्वविरचितनाटके अभिज्ञानशाकुन्तले एवमभिप्रैति- "स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव ।

अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥" इति ।

यथा वृक्षः सूर्यस्य तापमनुभवन् श्रान्त्या परितप्तानां छायाभिलाषिणां दुःखं प्रशमयति तथैव राजा रात्रिंदिवं स्वसुखं त्यजन् प्रजानां दुःखं दूरीकरोति । अतः प्रजारक्षणमेव तस्य आद्यं कर्तव्यं भवति । अष्टाङ्गयोगविज्ञानमन्दिरस्य अध्यक्षाः श्रीरङ्गमहागुरवः सदा एवं कथयन्ति स्म यद्- " देशस्य रक्षणार्थं राजा आवश्यकः । स राजा न केवलः इन्द्रियारामः अपि तु आत्मारामोऽपि भवेत् । अत एवोक्तम् 'आत्मवान् राजा'- यः आत्मवान् (आत्मगुणसम्पन्नः जितेन्द्रियः) स राजा भवितुमर्हति" इति ।  

Sunday, July 12, 2020

उपचारः (Upacharah)

लेखकः - नरसिंहभट्टः
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



'उपाचार' इति पदं सामान्यतया व्यवह्रियते । पञ्चोपचारः दशोपचारः षोडशोपचारः इत्यादिषु उपचारः दृश्यते । 'उप' इत्युपसर्गपूर्वकात् 'चर'धातोः 'घञ्' प्रत्यययोगेन 'उपचार'पदस्य निष्पत्तिः । तस्य रोगप्रतिकारः उपचर्या चिकित्सा निग्रहः सेवा इत्याद्यर्थाः उक्ताः । उप- समीपे, चरणं - गतिः इत्युपचारः । यदा यस्य कस्यापि विषयस्य तादात्म्यं सम्पादनीयं चेत् तदा तस्य समीपे अस्माभिः चरितव्यम् । तदा तस्य उपचार इति कथ्यते । वस्तुतः अस्माकं जीवनं भगवतः तादात्म्येन सफलं भूयात् इति हेतोः उपचारः सम्पद्यते । तर्हि उपचारः कथमिति पश्याम ।

अस्माभिः भगवतः, पित्रोः, अतिथ्यभ्यागतानां, बान्धवानां, ज्येष्ठानां, श्रेष्ठानां चोपचारः क्रियते । यदा सम्यगुपचारः न भवति तदा अपचारोऽपि भवेत् । उपाचारव्याजेन कदाचिद् अपचारोऽपि सङ्घटते । भगवतः विषये ध्यानावाहनादिभिः पूजां कुर्मः । अथवा धूपदीपादिना पञ्चोपचारान् वा कुर्मः । तदभावे मानसोपचारोऽपि स्यात् । अतिथीनां विषये अर्घ्यपाद्यादिना भोजनेन च गौरवं समर्पयामः । इदं तु उपचारस्य प्रकारवैविध्यम् । श्रीरङ्गमहागुरवः एकेनोदाहरणेन अमुं विषयं बहुसुन्दरं व्याख्यातवन्तः -" 'जिरिनिम्बः' इति काचन वनस्पतिरस्ति । तदभिवृद्ध्यर्थं कदाचित् अस्माभिः सारं(भोजने व्यञ्जनरूपेण उपयुज्यमानं द्रव्यम्) दधि इत्यादि-पदार्थाः दीयन्ते । तदा तस्य (वनस्पतेः) पर्णस्य गन्धोऽपि समीचीनो भवति । वृक्षवृद्ध्यार्थं यः रसः आवश्यकः स रसः तस्मिन्नेव वृक्षे सदा सञ्चरन् भवति । तदनुगुणं यदा अस्माभिः 'चारः' क्रियते तदा तस्य उपचारो भविष्यति । अन्यथा अपचारो भविष्यति ।" शरीररक्षणार्थं आहारसेवनं स्नानादिकर्माणि सन्ति । तैः शरीरस्य उपचयो भवति । एषः उपचारः । यदा अस्माभिः विषं भुक्तं तदा शरीरस्यापचयो भवति । एषः अपचारः । एवमेव सर्वे प्राणिनः स्वतनुं स्वस्वामिनं च तथा उपचरन्तः भवन्ति ।

अस्माभिः य उपाचारः भगवति क्रियते कथं तं प्राप्नोति । अत्रापि एवं कथयन्ति गुरवः – इदानीम् अहं शब्दोच्चारणं करोमि । अस्य ध्वनिः कियद्दूरं गच्छेत् । यदि इतोऽपि उच्चैः उच्चरामि स ध्वनिः ततोऽपि दूरं गच्छति । यदि दूरवाण्या वदामि तदा शतयोजनं गच्छेत वा । एवमेव अस्माकं मनः भगवन्तं यथा व्रजेत् तथा उपचारः करणीयः" इति । अत एवोक्तं गीताचार्येण – "यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥" इति ।

अत्र विदुरनीतिः एवं वक्ति – पञ्चाग्नयो मनुष्याणां परिचर्याः प्रयत्नतः । पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥" इति । मुख्यतः उपचारः परिचर्या सेवा एव । अस्माकं जीवने एतेषां सेवा करणीया । यस्य उपचारः क्रियते तस्य गुणाः (उपचारं कृतवति)सात्म्याः भवन्ति । माता पिता अग्निः आत्मा गुरुश्च इत्येतेषां उपचारेण सद्गुणाः एव आविर्भवन्ति । एते न कदापि पुत्राणां विषये अवगुणं चिन्तयन्ति । एतेषां उप-समीपे चरणेन वयं गुणसम्पन्नाः भवेम । अतः एव षोडशोपचार-पञ्चोपचारेत्यादिः बाह्योपचारः तथा मानसोपचारः प्रसिद्धोऽभवत् । बाह्योपचारः मानसोपचारे प्रलीयते । धर्मार्थकाममोक्षार्थं समस्तोपचारः भवतु ।

Thursday, April 9, 2020

ऋतं-सत्यम् (Rtam-Satyam)


लेखकः – विद्वान् नरसिंह भट्टः
(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)
ऋतं सत्यमिति पदद्वयम् अस्माभिः श्रुतप्रायम् ।
"ऋतं च सत्यं चाभीद्धात्तपसॊऽध्यजायत" इत्यत्र ऋतसत्यपदे भिन्नार्थके इव भाति पार्थक्येन अभिधानात् ।ऋतमित्यस्य विरुद्धार्थकपदम् अनृतम् ।सत्यमित्यस्य विरुद्धार्थकपदम्  असत्यम् ।अनृतम् असत्यं च अभिन्नार्थके। एवं कुत्रचित् अनयोः पदयोः  अर्थः एक इव भाति । 
"ऋतं पिबन्तौ सुकृतस्य लोके" (कठोपनिषत्) इत्यत्र शङ्करभगवत्पादैः भाषितम्- 'ऋतं –सत्यम् अवश्यंभावित्वात्' इति ऋतपदस्य सत्यम् इति अर्थम् उक्त्वा सत्यमित्युक्ते कर्मफलमित्यर्थः विवृतः ।किं तर्हि वास्तविकतया अनयोः पदयोः अर्थः।

श्रीरङ्गमहागुरवः अनयोः पदयोः विवरणम् एकेनोदाहरणेन विवृण्वन्ति स्म ।आपाततः एते पदे अभिन्नार्थद्योतके भवतः । परन्तु एते पदे भिन्नार्थद्योतके भवतः इति ।तेनोक्तम् उदाहरणम्- न्यग्रोधबीजं  न्यग्रोधवृक्षः च । अत्र ऋतं बीजस्थानीयम् सत्यं वृक्षस्थानीयम् ।बीजे वृक्षरूपेण परिणामित्वशक्तिरस्ति । अतः बीजं वृक्षरूपेण वर्धते ।वृक्षविकासरूपः आशयः सारभूतः भागः बीजे भवति ।तम् ऋतमिति ब्रूमः ।सत्यम् इति पदम् संस्कृतभाषायाः पदम् । अस्मिन् पदे 'स-ति-यं' इति भागत्रयमस्ति ।
'स' इत्यस्य अमरत्वं 'ति' इत्यस्य मरत्वं 'य' इत्यस्य च अनयोः सेतुत्वं इति अर्थः अस्ति  मरामरयोः सामरस्यमेव सत्यम् । यः बीजे विद्यमानः वृक्षविकासरूपः आशयः स्थूलरूपेण परिणमते स वृक्षनाम्ना व्यवह्रियते ।यदि स वृक्षः मूलं बीजमेव उत्पादयति तदा वृक्षः सत्यमितिकथ्यते ।तेनैव बीजेन स वृक्षः विकसति चेत् तच्च बीजं ऋतमित्येव । यत् वृक्षं तिरोधत्ते तत् अनृतम् असत्यमिति कथ्यते ।एवम् एतादृशेन बीजवृक्षोदाहरणेन अस्य विषयस्य सुबोधरूपेण श्रीरङ्गगुरुणा दीयमानं विवरणम् असदृशम् ।अमुमेवार्थं एकेन मन्त्रेण कथम् अबोधयन् इति अवलोकयाम । "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ।" परमात्मा स्वस्य सङ्कल्पानुसारेण बीजं वृक्षरूपेण विस्तारयति।परमात्मा जगत्सृष्टिं कर्तुं निर्विकारं प्रभवति । अत्र ऋतं जगतः मूलरूपम् । सत्यं चाखिलं विश्वम् ।यदा ऋतं बीजं वृक्षरूपेण परिणतं भवति तदा बीजं वृक्षे विकासं प्राप्नोति । तत्र वयं बीजं न पश्यामः ।तथैव यदा वृक्षः बीजे विलयं याति तदा बीजे वृक्षं न पश्यामः ।  एवं च सर्वप्रलयरूपम् ऋतं विकसितरूपं सत्यम् ।यदा ऋतं सत्यमिति पदद्वयम् एकत्र प्रयुज्यते तदा भिन्नार्थः ग्राह्यः ।अन्यथा सत्यशब्दस्यापि ऋतमित्येवार्थः इति अवगन्तव्यः। यथा ऋतम् अस्य जगतः मूलं तथैव सत्यमपि
मूलमेव भवति "सत्यज्ञानमनन्तं ब्रह्म" इत्यादि श्रुत्युक्तप्रकारेण इति अलं विस्तरेण ।