Tuesday, February 8, 2022

भगवते सूर्याय नमः (Bhagavate Suryaya Namah)

 लेखकः – डा. के एस् कण्णन् 

(प्रतिक्रियां दातुं शक्यते :  lekhana@ayvm.in)



अस्मिन् रथसप्तमी-सुपर्व-समये भगवतः आदित्यस्य पूजा सर्वैरपि भारतीयैः समाचर्यते । कोऽयमादित्यः? किमर्थं तस्य वरिवस्या (पूजनम्)? - इति विषयम् अधिकृत्य द्वित्राणि वाक्यानि भागवतानां पुरस्तात् न्यस्यन्ते ।

सूर्य-निर्देशकानि नामानि उपपञ्चाशत् वर्तन्ते अमरकोशे । तेजोमूर्तिः सन् जगतः प्रभां ददाति सूर्यः । अत एव सः भास्करः इति, प्रभाकरः विभाकरः इति, भानुः भास्वान् इति  च उच्यते । खद्योतः द्युमणिः दिवाकरः अहस्करः - इति शब्दाः अपि तस्य तेजःप्रदत्वमेव निर्दिशन्ति । अहर्पतिः त्विषांपतिः दिनमणिः - इत्येते शब्दाः अपि अमुमेव भावं द्योतयन्ति । विशेषेण रोचते भ्राजते इति सः विरोचनः इत्यपि कथ्यते ।

"ग्रहाणामादिरादित्यः" इति हेतुना सः ग्रहपतिः इत्यप्युच्यते । सर्वं प्रपञ्चं, सदा पश्यति इति कारणात् जगच्चक्षुः सः । सर्वेषां सर्वकर्मणां साक्षिभूतः सः कर्मसाक्षी इत्यप्युच्यते । लोकबान्धवः पद्मिनीवल्लभः इति नामनी तस्य स्वभावं निरूपयन्ति । तस्य किरणाः उष्णाः इति कारणेन सः उष्णरश्मिः इत्युच्यते । तस्य रश्मयः सङ्ख्यातीताः, अतः सहस्रांशुः इत्यपि तस्यैव अभिधानम् ।

वस्तुतः भा-शब्दः ज्ञानवाची । "भास्"-शब्दोऽपि तथैव । अत एव भायां रताः भारताः (एवमेव भासि रताः भारताः) इत्यभिधीयन्ते । "ज्योतिर्वत् ज्ञानानि भवन्ति" इति व्याकरण-महाभाष्य-कर्तुः पतञ्जलेः वचनम् । अनेन नयेन ये ज्ञाने रमन्ते ते "भारताः" । नहि ज्ञानादपि किञ्चिदुत्तमं जगति । यथोक्तं भगवद्गीतायां - "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।" इति । "सर्वं कर्माखिलं पार्थं ज्ञाने परिसमाप्यते" इत्यपि गीतावाक्यं श्रीरङ्गमहागुरोः अतिप्रियं वचनमेव ।

एवं च यथार्थतः सूर्यस्य रश्मयः न सन्ति - इत्यपि श्रीरङ्गमहागुरुभिः प्रतिपादितम् । यदि नेत्रयोः पक्ष्माणि श्लेषकद्रवेण (gum) एकीकृतानि भवन्ति, तदा रश्मयः नैव गोचरीभवन्ति - इत्यपि सूक्ष्मदर्शिभिः श्रीगुरुभिः प्रयोगरूपेण यत् प्रतिपादितम् तद् अत्र स्मरामः ।

सूर्यस्य भौतिकं रूपम् एकं भवति, अपरं च दैविकं रूपम् । तस्य मण्डले भगवान् नारायणः वर्तते - इति कारणेन "ध्येयः सदा सवितृ-मण्डल-मध्य-वर्ती नारायणः सरसिजासन-संनिविष्टः" इति सन्ध्यावन्दन-समये वयं प्रत्यहं स्मरामः ।

योगाभ्यासारम्भे सूर्यनमस्कारः क्रियते । सूर्यः द्वादशात्मा इत्युच्यते, अतः द्वादश-नामोच्चारण-पूर्वकः द्वादशाऽऽसनैः सूर्य-नमस्कारो विधीयते ।

सूर्यः वेदरूपः ; त्रयो वेदाः तस्य शरीर-भागाः । अतः "त्रयी-मूर्तिः" इति सः कथ्यते । एषा त्रय्येव विद्या तपति - इति वेदः भगवन्तं सूर्यं स्तौति । सर्व-कर्म-प्रेरकः सः - इति अनेन हेतुना सः सूर्यः इत्युच्यते । "सुष्ठु ईरयति प्रेरयति [सर्वान् सर्वकर्मसु] - इति व्युत्पत्त्या सः सूर्यः ।

लोक-धारक-धर्मः सूर्ये वर्तते । सृष्टेः धारणं पालनं च भगवतो विष्णोः कार्यम् । गीतास्वपि "आदित्यानाम् अहं विष्णुः" - इत्येव वाक्यम् ।

यथा उषोदेवी प्रत्यहं दृश्यमाना नूतना एव लक्ष्यते तथा सूर्योऽपि । अत एव वेदे उषसो वर्णनम् "पुनः पुनर्जायमाना पुराणी" इति, सूर्यस्य च "नवो नवो भवति जायमानः" इति ।

बाह्यं कार्यं वा, आन्तरं कार्यं वा अस्तु, तत् प्राण-शक्त्या एव संभवति । अत एव सूर्योदय-समये "प्राणः प्रजानाम् उदयत्येष सूर्यः" इति स्तूयते सः ।

प्राणस्य च आत्मनश्च नैकट्यं महदेव । अत एव सूर्यस्य मूलभूतं तत्त्वं नाम "सूर्य आत्मा जगतः तस्थुषश्च" इति श्रुत्या  निरूप्यते । अर्थात् स्थावराणां जङ्गमानां च आत्मभूतः सः - इत्येव वैदिकं दर्शनम् ।

सूर्यस्य लोकोपकारकत्वं महत् - इति निरूपयितुमेव कालिदासः "सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः" इति वर्णयति । लोक-रक्षणार्थं सूर्यः सर्वदा उद्युक्तः इति सूचयन् कालिदासः, धर्मिष्ठो दुष्यन्तः सूर्य इव - इति दर्शयति - "भानुः सकृद्-युक्त-तुरङ्ग एव" इति श्लोकेन ।

श्रीरङ्ग-महागुरूणां प्रियम् एकं श्लोकम् अत्र संस्मृत्य विरमामः । स च श्लोकः महाभारतीयः । स एवम् -
"द्वाविमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।
परिव्राड् योग-युक्तश्च रणे चाऽभिमुखो हतः ॥" इति ।
अर्थात् द्वयोरेव मोक्षः सिद्ध्यति । योग-मार्ग-गामी परिव्राजकः एकः, रणे च शत्रोरपराङ्मुखो योधः अपरः । सूर्य-मण्डल-भेदी मोक्ष-भाग् भवति । तस्य संसार-चक्रे पुनरागमनं न भविष्यति ।

"अर्क-मण्डल-मध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्माऽदि-सेव्य-पादाऽब्जं नौमि ब्रह्म रमा-सखम् ॥"

॥ श्रीरङ्गार्पणमस्तु ॥